Proofing

This page has not been fully proofread.

वेदस्तुतिः ]
 
संकीर्णस्तोत्राणि
 
८०९
 
स्थिरचरजातयः स्युरजयोत्थनिमित्तयुजो विहर उदीक्षया यदि
परस्य विमुक्त ततः । नहि परमस्य कश्चिदपरो न परश्व
भवेद्वियत इवापदस्य तव शून्यतुलां दधतः ॥ १६ ॥
अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगतास्तर्हि न शास्यतेति नियमो
ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य नियन्तृ भवेत्
सममनुजानतां यदमतं मतदुष्टतया ॥ १७ ॥ न घटत उद्भवः
प्रकृतिपुरुषयोरजयोरुभययुजा भवन्त्यसुभृतो जलबुडुदवत् ।
त्वयि त इमे ततो विविधनामगुणैः परमे सरित इवार्णवे मधुनि
लिल्युरशेषरसाः ॥ १८ ॥ नृषु तव मायया भ्रमममीष्ववगत्य
भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां
भवभयं तव यहुकुटिः सृजति मुहुत्रिणेमिरभवच्छरणेषु भयम्
॥ १९॥ विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यतन्ति यन्तु-
मतिलोलमुपायखिदः । व्यसनशतान्विताः समवहाय गुरोश्चरणं
वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ २० ॥ स्वजनसुतात्मदार-
धनधामधरासुरथैस्त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे ।
इति सदजानतां मिथुनतो रतये चरतां सुखयति कोऽन्विह स्ववि-
हृते स्वनिरस्तभगे ॥ २१ ॥ भुवि पुरुपुण्यतीर्थसदनान्यृषयो विम-
दास्त उत भवत्पदाम्बुजहृदोऽघभिदंघ्रिजलाः । दधति सकृन्मन-
स्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान्
॥ २२ ॥ सत इदमुत्थितं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व
च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्ध-
परंपरया भ्रमयति भारती त उरुवृत्तिभिरुक्थजडान् ॥ २३ ॥ न
यदिदमग्र आस न भविष्यदतो निधनादनुमितमन्तरा त्वयि विभाति
मृषैकरसे। अत उपमीयते द्रविणजातिविकल्पपथैर्वितथमनोविला-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)