2026-05-10 23:36:44 by ambuda-bot
This page has not been fully proofread.
८०८
बृहत्स्तोत्ररत्नाकरे
[ वेदस्तुतिः
कृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत
उपासतेऽङ्घ्रिमभवं भुवि विश्वसिताः ॥ ७ ॥ दुरवगमात्मतत्त्व-
निगमाय तवात्ततनोश्चरितमहामृताब्धिपरिवर्तपरिश्रमणाः ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंस कुलसङ्ग-
विसृष्टगृहाः ॥ ८ ॥ त्वदनुपथं कुलायमिदमात्मसुहृत्प्रियव-
ञ्चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च । न बत रमन्त्यहो
असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृतः
॥ ९ ॥ निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्मुनय उपासते
तदरयोऽपि ययुः स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्ड-
विषक्तधियो वयमपि ते समाः समदृशोंऽघ्रिसरोजसुधाः ॥ १० ॥
क इह नु वेद बता वरजन्मलयोऽग्रसरं यत उदगाहषि-
र्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजवः
किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥ ११ ॥ जनिमसतः
सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिशन्ति त
आरुपितैः । त्रिगुणमयः पुमानिति भिदा यदबोधकृता त्वयि न
ततः परत्र स भवेदवबोधरसे ॥ १२ ॥ सदिव मनस्त्रिवृत्त्वयि
विभात्यसदामनुजात् सदभिमृशन्त्य शेषमिदमात्मतयात्मविदः । नहि
विकृतिं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्म-
तयावसितम् ॥ १३ ॥ तव परि ये चरन्त्यखिलसत्त्वनिकेततया
त उत पदाक्रमन्त्यविगणय्य शिरो निर्ऋतेः । परिवयसे पशूनिव
गिरा विबुधानपि तान् त्वयि कृतसौहृदाः खलु पुनन्ति न ये
विमुखाः ॥ १४ ॥ त्वमकरणः स्वराडखिलकारकशक्तिधरस्तव
बलिमुद्वहन्ति समदन्त्यजयाऽनिमिषाः । वर्षभुजोऽखिलक्षितिपते-
रिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः ॥ १५॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)