2026-05-10 23:36:43 by ambuda-bot
This page has not been fully proofread.
८०६
बृहत्स्तोत्ररत्नाकरे
४१३. मुचुकुन्दस्तुतिः ।
[ मुचुकुन्दस्तुतिः
श्रीगणेशाय नमः ॥ विमोहितोऽयं जन ईश मायया त्वदीयया
त्वां न भजत्यनर्थदृक् । सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्
पुरुषश्च वञ्चितः ॥ १ ॥ लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चि-
दव्यङ्गमयत्नतोऽनघ । पादारविन्दं न भजत्यसन्मतिर्गृहान्धकूपे
पतितो यथा पशुः ॥ २ ॥ ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपते । मर्त्यात्मबुद्धेः सुतदारकोश भूष्वा-
सज्जमानस्य दुरन्तचिन्तया ॥ ३ ॥ कलेवरेऽस्मिन् घटकुड्य-
सन्निभे निरूढमानो नरदेव इत्यहम् । वृतो रथेभाश्वपदात्यनीकपैर्गां
पर्यटस्त्वागणयन् सुदुर्मदः ॥ ४ ॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया
प्रवृद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाऽभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखमन्तकः ॥ ५ ॥ पुरा रथैर्हेमपरिष्कृतैश्चरन्
मतङ्गजैर्वा नरदेवसंज्ञितः । स एव कालेन दुरत्ययेन ते कलेवरो
विकृमिभस्मसंज्ञितः ॥ ६ ॥ निर्जित्य दिक्चक्रमभूतविग्रहो वरा-
सनस्थः समराजवन्दितः । गृहेषु मैथुन्यसुखेषु योषितां क्रीडा-
मृगः पूरुष ईश नीयते ॥ ७ ॥ करोति कर्माणि तपःसु निष्ठितो
निवृत्तभोगस्तदपेक्षया ददत् । पुनश्च भूयेयमहं स्वराडिति प्रवृद्ध-
तर्षो न सुखाय कल्पते ॥ ८ ॥ भवापवर्गों भ्रमतो यदा भवे-
जनस्य तर्ह्यच्युत सत्समागमः । सत्संगमो यहि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिः ॥ ९ ॥ मन्ये ममानुग्रह ईश ते कृतो
राज्यानुबन्धापगमो यच्छया । यः प्रार्थ्यते साधुभिरेकचर्यया
वनं विविक्षद्भिरखण्ड भूमिपैः ॥ १० ॥ न कामयेऽन्यं तव पाद-
सेवनादकिञ्चन प्रार्थ्यतमाद्वरं विभो । आराध्य कस्त्वां ह्यपवर्ग दं
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)