Proofing

This page has not been fully proofread.

८०४
 
बृहत्स्तोत्ररत्नाकरे
 
[ भ्रमरगीतम्
 
मूर्तये ॥ १८ ॥ नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय
नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ १९ ॥ नमो भृगूणां पतये दृप्त-
क्षत्रवनच्छिदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ २० ॥
नमस्ते वासुदेवाय नमः संकर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां
पतये नमः॥ २१ ॥ नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने ।
म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते कल्किरूपिणे ॥ २२ ॥ भगवन् जीव-
लोकोऽयं मोहितस्तव मायया । अहं-ममेत्यसङ्ग्राहो भ्राम्यते कर्म-
वर्त्मसु ॥ २३ ॥ अहं चात्मात्मजागार दारार्थस्वजनादिषु ।
भ्रमामि स्वमकल्पेषु मूढः सत्यधिया विभो ॥ २४ ॥ अनित्याना-
त्मदुःखेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वा-
त्मनः प्रियम् ॥ २५॥ यथा बुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवैः ।
अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुखः ॥ २६ ॥ नोत्सहेऽहं
कृपणधीः कामकर्महतं मनः । रोद्धुं प्रमाथिभिश्चाक्षैर्हियमाणमित-
स्ततः ॥ २७ ॥ सोऽहं तवध्युपगतोऽस्म्यसतां दुरापं तच्चाप्यहं
भवदनुग्रह ईश मन्ये । पुंसो भवेद्यर्हि संसरणापवर्गस्त्वय्यजनाभ
सदुपासनया मतिः स्यात् ॥ २८ ॥ नमो विज्ञानमात्राय सर्वप्रत्यय-
हेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ २९ ॥ नमस्ते वासु-
देवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां
प्रभो ॥ ३० ॥ इत्यक्रूरस्तुतिः संपूर्णा ॥
 
४१२. भ्रमरगीतम् ।
 
श्रीगणेशाय नमः ॥ मधुप कितवबन्धो मा स्पृशाङ्ग सपत्याः
कुचविलुलितमाला कुङ्कुमश्मश्रुभिर्नः । वहतु मधुपतिस्तन्मानि -
नीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक् ॥ १ ॥
सकृदधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस्त-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)