Proofing

This page has not been fully proofread.

८०२
 
बृहत्स्तोत्ररत्नाकरे
 
[ अक्रूरस्तुतिः
 
कुन्तलैर्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन् मुहुर्म-
नसि नः स्मरं वीर यच्छसि ॥ १२ ॥ प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण
नः स्तनेष्वर्पयाधिहन् ॥ १३ ॥ सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर
वीर नस्तेऽधरामृतम् ॥ १४ ॥ अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृदृशाम् ॥ १५ ॥ पतिसुतान्वय भ्रातृ-
बान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमो-
हिताः कितव योषितः कस्त्यजेन्निशि ॥ १६ ॥ रहसि संविदं
हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य
धाम ते मुहुरतिस्पृहा मुह्यते मनः ॥ १७ ॥ व्रजवनौकसां
व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च
नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ १८ ॥ यत्ते
सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्क-
शेषु । तेनाटवीमटसि तद्व्यथते न किंस्वित् कूर्पादिभिर्भ्रमति
धीर्भवदायुषां नः ॥ १९ ॥ इति गोपिकागीतं संपूर्णम् ॥
 
४११. अक्रूरस्तुतिः ।
 
श्रीगणेशाय नमः ॥ नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पुरुष-
`माद्यमव्ययम् । यन्नाभिजातादरविन्दकोशाद्रह्माविरासीद्यत एष
लोकः ॥ १ ॥ भूस्तोयमग्निः पवनः खमादिर्महानजादिर्मन इन्द्रि-
याणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः
॥ २ ॥ नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीताः ।
अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ३ ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)