2026-05-10 23:36:42 by ambuda-bot
This page has not been fully proofread.
गोपिकागीतम् ]
संकीर्णस्तोत्राणि
४१०. गोपिकागीतम् ।
८०१
श्रीगणेशाय नमः ॥ जयति तेऽधिकं जन्मना व्रजः श्रयत
इन्दिरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावकास्त्वयि
धृतासवस्त्वां विचिन्वते ॥ १ ॥ शरदुदाशये साधुजातसत्सर-
सिजोदर श्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद
निघ्नतो नेह किं वधः ॥ २ ॥ विषजलाप्ययाद्व्यालराक्षसाद्वर्ष-
मारुताद्वैद्युतानलात् । वृषमयात्मजाद्विश्वतोभयादृषभ ते वयं
रक्षिता मुहुः ॥ ३ ॥ न खलु गोपिका नन्दनो भवानखिल-
देहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदे-
यिवान् सात्वतां कुले ॥ ४ ॥ विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि
धेहि नः श्रीकरग्रहम् ॥ ५ ॥ ब्रजजनार्तिहन् वीरयोषितां
निजजनस्मय ध्वंसनस्मित । भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥ ६ ॥ प्रणतदेहिनां पापकर्शनं तृण-
चरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु
नः कृन्धि हृच्छयम् ॥ ७ ॥ मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीरधरसीधु-
नाप्याययस्व नः ॥ ८ ॥ तव कथामृतं तप्तजीवनं कविभिरी-
डितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति
ते भूरिदा जनाः ॥ ९ ॥ प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च
ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृशः कुहक नो
मनः क्षोभयन्ति हि ॥ १० ॥ चलसि यद्रजाच्चारयन्पशून्न-
लिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥ ११ ॥ दिनपरिक्षये नील-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)