Proofing

This page has not been fully proofread.

८००
 
बृहत्स्तोत्ररत्नाकरे
 
[ युगलगीतम्
 
गोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः
सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजातीः ॥ १३ ॥ सव-
नशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनत-
कन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः ॥ १४ ॥ निजपदाज-
दलैर्ध्वजवज्रनीरजाङ्कुशवि चित्रललामैः । व्रजभुवः शमयन् खुर-
तोदं वर्ष्मधुर्यगतिरीडितवेणुः ॥ १५ ॥ व्रजति तेन वयं सविलास-
वीक्षणार्पितमनोभव वेगाः । कुजगतिं गमिता न विदामः कश्म-
लेन कबरं वसनं वां ॥ १६ ॥ मणिधरः क्वचिदागणयन् गा
मालया दयितगन्धतुलस्याः । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन्
भुजमगायत यत्र ॥ १७ ॥ क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्व-
सत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव
विमुक्तगृहाशाः ॥ १८ ॥ कुन्ददामकृतकौतुकवेषो गोपगोधन-
वृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिनां
विजहार ॥ १९ ॥ मन्दवायुरुपवात्यनुकूलं मानयन् मलयज-
स्पर्शेन । बन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः
॥ २० ॥ वत्सलो व्रजगवां यदगधो वन्द्यमानचरणः पथि वृद्धैः ।
कृत्स्रगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः ॥ २१ ॥
उत्सवं श्रमरुचापि दृशीनामुन्नयन् खुररजश्छुरितस्त्रक् । दिव्स -
यैति सुहृदाशिष एष देवकीजठरभूरुडुराजः ॥ २२ ॥ मदविघूर्णि-
तलोचन ईषम्मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो
मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ २३ ॥ यदुपतिर्द्विर-
दराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवच उपयाति
दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ २४ ॥ इति युगलगीतं संपूर्णम्
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)