Proofing

This page has not been fully proofread.

युगलगीतम् ]
 
संकीर्णस्तोत्राणि
 
४०९. युगलगीतम् ।
 
७९९
 
श्रीगणेशाय नमः ॥ वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पित-
वेणुम् । कोमलाङ्गुलिभिराश्रितमार्ग गोप्य ईरयति यत्र मुकुन्दः
॥ १ ॥ व्योमयानवनिताः सह सिद्धैर्विस्मितास्तदुपधार्य सलज्जाः ।
काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ २ ॥
हन्त चित्रमबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्द-
सूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ ३ ॥ वृन्दशो व्रज-
वृषा मृगगावो वेणुवाद्यहृतचेतस मारात् । दन्तदष्टकवला टतकर्णा
निद्रिता लिखितचित्रमिवासन् ॥ ४ ॥ बर्हिणस्तबकधातुपला-
शैर्बद्धमल्लपरिबर्हविडम्बः । कर्हिचित् सबल आलि स गोपैः
समाह्वयति यत्र मुकुन्दः ॥ ५ ॥ तर्हि भग्नगतयः सरितो वै
तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः 'प्रेम-
वेपितभुजाः स्तिमितापः ॥ ६ ॥ अनुचरैः समनुवर्णितवीर्य आदि-
पूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीर्वेणुनाह्वयति
गाः स यदा हि ॥ ७ ॥ वनलतास्तरव आत्मनि विष्णुं व्यञ्ज-
यन्त्य इव पुष्पफलाढ्याः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टत-
नवः ससृजुः स्म ॥ ८ ॥ दर्शनीयतिलको वनमालादिव्यगन्ध-
तुलसीमधुमत्तैः । अलिकुलैरलघुगीतमभीष्टमाद्रियन् यर्हि संधित-
वेणुः ॥ ९ ॥ सरसि सारसहंसविहंगाश्चारुगीतहृतचेतस एत्य ।
हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ १० ॥
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्ष-
यन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ ११ ॥ मह-
दतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः । सुहृदमभ्य-
वर्षत्सुमनोभिश्छायया च विदधत् प्रतपत्रम् ॥ १२ ॥ विविध-
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)