Proofing

This page has not been fully proofread.

७९८
 
बृहत्स्तोत्ररत्नाकरे
 
[ वेणुगीतम्
 
सुतपदाम्बुजलब्धलक्ष्मि । गोविन्दवेणुमनु मत्तमयूरनृत्यं प्रेक्ष्याद्रि-
सान्वपरताऽन्यसमस्तसत्त्वम् ॥ १० ॥ धन्याः स्म मूढमतयोऽपि
हरिण्य एता या नन्दनन्दनमुपात्तविचित्रवेषम् । आकर्ण्य वेणु-
रणितं सहकृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः ॥ ११ ॥
कृष्णं निरीक्ष्य वनितोत्सवरूपवेषं श्रुत्वा च तत्क्वणितवेणुविचित्र-
गीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत्प्रसूनकबरा
मुमुहुर्विनीव्यः ॥ १२ ॥ गावश्च कृष्णमुखनिर्गत वेणुगीत पीयूष-
मुत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्रुतस्तन पयः कवलाः स्म
तस्थुर्गोविन्दमात्मनि दृशाऽश्रुकलाः स्पृशन्त्यः ॥ १३ ॥ प्रायो
बताम्ब विहगा मुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणु-
गीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो
विगतान्यवाचः ॥ १४ ॥ नद्यस्तदा तदुपधार्य मुकुन्दगीतमावर्त -
लक्षितमनो भवभग्नवेगाः । आलिङ्गनस्थगितमूर्मि भुजैर्मुरारे-
गृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥ दृष्ट्वातपे व्रजपशून्
सहरामगोपैः संचारयन्तमनुवेणुमुदीरयन्तम् । प्रेमप्रवृद्ध उदितः
कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाऽम्बुद आतपत्रम् ॥ १६ ॥
पूर्णाः पुलिन्द्य उरुगायपदाजरागश्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम्
॥ १७ ॥ हन्तायमद्रिरबला हरिदासवर्यो यद्वामकृष्ण चरणस्पर्श-
प्रमोदः । मानं तनोति सहगोगणयोस्तयोर्यत्पानीयसूयव सकन्दर-
कन्दमूलैः ॥ १८ ॥ गा गोपकैरनुवनं नयतोरुदारवेणुस्वनैः कल-
पदैस्तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योग-
पाशकृतलक्षणयोर्विचित्रम् ॥ १९ ॥ एवंविधा भगवतो या वृन्दा-
वनचारिणः। वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २० ॥
इति वेणुगीतं संपूर्णम् ॥ ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)