2026-05-10 23:36:41 by ambuda-bot
This page has not been fully proofread.
वेणुगीतम् ]
संकीर्ण स्तोत्राणि
७९७
सीदनुग्रहात् ॥ ९ ॥ वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च
कर्मसु मनस्तव पादयोर्नः । स्मृत्यां शिरस्तव निवासजगत्प्रणामे
दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥१०॥ इति गुह्यकस्तुति : संपूर्णा ॥
४०८. वेणुगीतम् ।
श्रीगणेशाय नमः ॥ इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना ।
न्यविशद्वायुना वातं सगोगोपालकोऽच्युतः ॥ १ ॥ कुसुमित-
वनराजिशुष्मिभृंगद्विजकुलघुष्टसरः सरिन्महीघ्रम् । मधुपतिरव-
गाह्य चारयन् गाः सहपशुपालबलश्चुकूज वेणुम् ॥ २ ॥ तद्रज-
स्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्वस-
खीभ्योऽन्ववर्णयन् ॥ ३ ॥ तद्वर्णयितुमारब्धाः स्मरन्त्यः कृष्ण-
चेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ ४ ॥ बर्हापीड
नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद्वासः कनककपिशं वैजयन्तीं
च मालाम् । रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दैर्वृन्दारण्यं
स्वपदरमणं प्राविशद्गीतकीर्तिः ॥ ५ ॥ इति वेणुरवं राजन् सर्व-
भूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योऽभिरेभिरे
॥ ६ ॥ गोप्य ऊचुः ॥ अक्षण्वतां फलमिदं न परं विदामः सख्यः
पशूननुविवेशयतोर्वयस्यैः । वक्रं व्रजेशसुतयोरनुवेणुजुष्टं यैर्वा
निपीतमनुरक्तकटाक्षमोक्षम् ॥ ७ ॥ चूतप्रवालबस्तबकोत्पलान-
मालानुपृक्तपरिधानविचित्रवेषौ । मध्ये विरेजतुरलं पशुपालगोठ्यां
रङ्गे यथा नटवरौ क्व च गायमानौ ॥ ८ ॥ गोप्यः किमाचरदयं
कुशलं स्म वेणुर्दामोदराधरसुधामपि गोपिकानाम् । भुंक्ते स्वयं
यदवशिष्टरसं हृदिन्यो हृष्यस्वचोऽश्रु मुमुचुस्तरवो यथा-
ssर्याः ॥ ९ ॥ वृन्दावनं सखि भुवो वितनोति कीर्ति यद्देवकी -
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)