2026-05-10 23:36:41 by ambuda-bot
This page has not been fully proofread.
७९६
बृहत्स्तोत्ररत्नाकरे
[ गुह्यकस्तुतिः
पदो भुवो भारोऽपनीतस्तव जन्मनेशितुः । दिष्ट्याङ्कितां त्वत्प-
दकैः सुशोभनैर्द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ १३ ॥
न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो
निरोधः स्थितिरप्यविद्यया कृता यतस्त्वय्यभयाश्रयात्मनि
॥ १४ ॥ मत्स्याश्वकच्छपनृसिंहवराहहंसराजन्यविप्रविबुधेषु कृता-
वतारः । त्वं पासि नस्त्रिभुवनं च यथाधुनेश भारं भुवो हर
यदूत्तम वन्दनं ते ॥ १५ ॥ दिष्ट्याम्ब ते कुक्षिगतः परः पुमानं-
शेन साक्षाद्भगवान् भवाय नः । मा भूद्भयं भोजपतेर्मुमूर्षोर्गोप्ता
यदूनां भविता तवात्मजः ॥ १६ ॥ इति गर्भस्तुतिः संपूर्णा ॥
४०७. गुह्यकस्तुतिः ।
श्रीगणेशाय नमः ॥ कृष्ण कृष्ण महायोगिंस्त्वमाद्यः पुरुषः
परः । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ १ ॥ त्वमेकः
सर्वभूतानां देहस्वात्मेन्द्रियेश्वरः । स्वमेव कालो भगवान् विष्णु-
व्यय ईश्वरः ॥ २ ॥ त्वं महान् प्रकृतिः साक्षाद्रजः र
तः सत्त्वतमो-
मयी । त्वमेव पुरुषोऽध्यक्षः सर्वक्षेत्रविकारवित् ॥ ३ ॥ गृह्यमाणै-
स्त्वमग्राह्यो विकारैः प्राकृतैर्गुणैः । को न्विहार्हति विज्ञातुं प्राक्सिद्धं
गुणसंवृतः ॥ ४ ॥ तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्म-
द्योतगुणैश्छन्नमहिम्ने ब्रह्मणे नमः ॥ ५ ॥ यस्यावतारा ज्ञायन्ते
शरीरेष्वशरीरिणः । तैस्तैरतुल्यातिशयैर्वीर्यैर्देहिष्वसंगतैः ॥ ६ ॥
स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोऽशभागेन
सांप्रतं पतिराशिषाम् ॥ ७ ॥ नमः परमकल्याण नमः परम-
मङ्गलम् । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ ८ ॥ अनु-
जानीहि नौ भूमंस्तवानुचरकिंकरौ । दर्शनं नौ भगवत ऋषेरा-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)