2026-05-10 23:36:41 by ambuda-bot
This page has not been fully proofread.
गर्भस्तुतिः ]
संकीर्ण स्तोत्राणि
७९५
प्रपन्नाः ॥ १ ॥ एकायनोऽसौ द्विफलनिमूलश्चतूरसः पञ्च-
विधः षडात्मा । सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो
ह्यादिवृक्षः ॥ २ ॥ त्वमेक एवास्य सतः प्रसूतिस्त्वं सन्निधानं
त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना
न विपश्चितो ये ॥ ३ ॥ बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय
लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि
मुहुः खलानाम् ॥ ४ ॥ त्वय्यम्बुजाक्षाखिलसत्त्वधानि समा-
धिनावेशितचेतसैके । त्वत्पादपोतेन महत्कृतेन कुर्वन्ति गोवत्स-
पदं भवाब्धिम् ॥ ५ ॥ स्वयं समुत्तीर्य सुदुस्तरं द्युमन् भवा-
र्णवं भीममदभ्रसौहृदाः । भवत्पदाम्भोरुहनावमत्र ते निधाय
याताः सदनुग्रहो भवान् ॥ ६ ॥ येऽन्येऽरविन्दाक्ष विमुक्तमानि-
नस्त्वय्यस्तभावादविशुद्धबुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः
पतन्त्यधोऽनादृतयुष्मदङ्क्रयः ॥ ७ ॥ तथा न ते माधव तावकाः
कचिद्रश्यन्ति मार्गांत्त्वयि बद्धसौहृदाः । त्वयाऽभिगुप्ता
विचरन्ति निर्भया विनायकानीकपमूर्धसु प्रभो ॥ ८ ॥ सत्त्वं
विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयउपायनं वपुः ।
वेदक्रियायोगतपःसमाधिभिस्तवाणं येन जनः समीहते ॥ ९ ॥
सत्त्वं न चेद्धातरिदं निजं भवेद्विज्ञानमज्ञानभिदापमार्जनम् ।
गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः
॥ १० ॥ न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य
साक्षिणः । मनोवचोभ्यामनुमेयवर्त्मनो देव क्रियायां प्रतियन्त्य-
थापि हि ॥ ११ ॥ शृण्वन् गृणन् संस्मरयंश्च चिन्तयन्नामानि
रूपाणि च मङ्गलानि ते । क्रियासु यस्त्वच्चरणारविन्दयोरा-
विष्टचेता न भवाय कल्पते ॥ १२ ॥ दिष्ट्या हरेऽस्या भवत
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)