Proofing

This page has not been fully proofread.

७९४
 
बृहत्स्तोत्ररत्नाकरे
 
[ गर्भस्तुतिः
 
पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तप्तये-
ऽद्यापि न चालमध्वराः ॥ ३१ ॥ अहो भाग्यमहो भाग्यं नन्द-
गोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनम्
॥ ३२ ॥ एषां तु भाग्यमहिमाऽच्युत तावदास्तामेकादशैव हि
वयं बत भूरिभागाः । एतद्धृषीकचषकैरसकृत् पिबामः शर्वा-
दयोंऽब्र्युदजमध्वमृतासवं ते ॥ ३३ ॥ तद्भूरिभाग्यमिह जन्म
किमप्यटव्यां यगोकुलेऽपि कतमांघ्रिरजोभिषेकम् । यज्जीवितं
तु निखिलं भगवान् मुकुन्दस्त्वद्यापि यत्पदरजः श्रुतिमृग्यमेव
॥ ३४ ॥ एषां घोषनिवासिनामुत भवान् किं देव रातेति नश्चेतो
विश्वफलात् फलं त्वदपरं कुत्राप्ययन् मुह्यति । सद्वेषादिव
पूतनाऽपि सकुला त्वामेव देवापिता यद्धामार्थ सुहृत्प्रियात्म-
तनय प्राणाशयास्त्वत्कृते ॥ ३५ ॥ तावद्रागादयः स्तेनास्तावत्
कारागृहं गृहम् । तावन्मोहोंऽघ्रिनिगडो यावत् कृष्ण न ते
जनाः ॥ ३६ ॥ प्रपञ्चं निष्प्रपञ्चोऽपि विडम्बयसि भूतले ।
प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ ३७ ॥ जानन्त एव
जानन्तु किं बहूक्त्या न मे प्रभो। मनसो वपुषो वाचो वैभवं
तव गोचरः ॥ ३८ ॥ अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि
सर्वदृक् । त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ ३९ ॥
श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धि-
कारिन् । उद्धर्मशार्वरहर क्षितिराक्षसधुगाकल्पमार्कमर्हन् भगवन्
नमस्ते ॥ ४० ॥ इति ब्रह्मस्तुति ; ॥
 
४०६. गर्भस्तुतिः ।
 
श्रीगणेशाय नमः ॥ सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं
निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)