Proofing

This page has not been fully proofread.

ब्रह्मस्तुतिः ]
 
संकीर्णस्तोत्राणि
 
७९३
 
इव त्वमेषोऽन्त इव त्रिनेत्र ॥ १९ ॥ सुरेष्वृषिष्वीश तथैव
नृष्वपि तिर्यक्षु यादः स्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय
प्रभो विधातः सदनुग्रहाय च ॥ २० ॥ को वेत्ति भूमन् भगवन्
परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्याम् । क्व वा कथं
 
कदेति विस्तारयन् क्रीड ियोगमायाम् ॥ २१ ॥ तस्मादिदं
जगदशेषमसत्स्वरूपं स्वमाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव
नित्यसुखबोधतनावनन्ते मायात उद्यदपि यत्सदिवावभाति
॥ २२ ॥ एकस्त्वमात्मा पुरुषः पुराणः सत्यः स्वयंज्योतिरनन्त
आद्यः । नित्योऽक्षरोऽजस्रसुखो निरञ्जनः पूर्णोऽद्वयो मुक्त उपा-
धितोऽमृतः ॥ २३ ॥ एवंविधं त्वां सकलात्मनामपि स्वात्मान-
मात्मात्मतया विचक्षते । गुर्वर्कलब्धोपनिषत्सु चक्षुषा ये ते तरन्तीव
भवानृताम्बुधिम् ॥ २४ ॥ आत्मानमेवात्मतयाऽविजानतां तेनैव
जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयोऽपि च तत् प्रलीयते
रज्जवामहेभगभवाभवौ यथा ॥ २५ ॥ अज्ञानसंज्ञौ भवबंधमोक्षौ
द्वौ नाम नान्यौ स्त ऋतज्ञभावात् । अजस्त्रचित्यात्मनि केवले परे
विचार्यमाणे तरणाविवाहनी ॥ २६ ॥ त्वामात्मानं परं मत्वा
परमात्मानमेव च । आत्मा पुनर्बहिर्मृग्य अहोऽज्ञजनताऽज्ञता
॥ २७ ॥ अन्तर्भवेऽनन्तभवन्तमेव ह्यतत्त्यजन्तो मृगयन्ति
सन्तः । असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु यन्ति
सन्तः ॥ २८ ॥ अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत
एव हि । जानाति तत्त्वं भगवन् महिनो न चान्य एकोऽपि चिरं
विचिन्वन् ॥ २९ ॥ तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र
तु वा तिरश्चाम् । येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव
पादपल्लवम् ॥ ३० ॥ अहोऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)