2026-05-10 23:36:40 by ambuda-bot
This page has not been fully proofread.
७९२
बृहत्स्तोत्ररत्नाकरे
[ ब्रह्मस्तुतिः
भाक् ॥ ८ ॥ पश्येश मेऽनार्यमनन्त आद्ये परात्मनि त्वय्यपि
मायिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छ-
मिवार्चिरग्नौ ॥ ९ ॥ अतः क्षमस्वाच्युत मे रजोभुवो ह्यजानत-
स्त्वत्पृथगीशमानिनः । अजाऽवलेपान्धतमोऽन्धचक्षुष एषोऽनु-
कम्प्यो मयि नाथवानिति ॥ १० ॥ क्वाहं तमोमहदहंखचराग्नि-
वार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः । क्वदृग्विधाविगणिताण्ड-
पराणुचर्यांवाताध्वरोमविवरस्य च ते महित्वम् ॥ ११ ॥ उत्क्षे-
पणं गर्भगतस्य पादयोः किं कल्पते मातुरधोऽक्षजागसे । किमस्ति
नास्ति व्यपदेशभूषितं तवास्ति कुक्षेः कियदप्यनन्तः ॥ १२ ॥
जगत्रयान्तोदधिसंप्लवोदे नारायणस्योदरनाभिनालात् । विनि-
र्गतोऽजस्त्विति वाङ् न वै मृषा किंत्वीश्वरत्वान्न विनिर्ग-
तोऽस्मि ॥ १३ ॥ नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशा-
खिललोकसाक्षी । नारायणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं
न तवैव माया ॥ १४ ॥ तच्चेज्जलस्थं तव सज्जगद्वपुः किं
मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं
नो सपद्येव पुनर्व्यदर्शि ॥ १५ ॥ अत्रैव मायाधमनावतारे य
प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर्जठरे जनन्या माया-
त्वमेव प्रकटीकृतं ते ॥ १६ ॥ यस्य कुक्षाविदं सर्व, सात्मं भाति
यथा तथा । तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ १७ ॥
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शित कोऽसि
प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि । तावन्तोऽसि' चतु-
र्भुजास्तदखिलैः साकं मयोपासितास्तावन्त्येव जगन्त्यभूस्तद-
मितं ब्रह्माद्वयं शिष्यते ॥ १८ ॥ अजानतां त्वत्पदवीमनात्म-
न्यात्मात्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)