2026-05-10 23:36:40 by ambuda-bot
This page has not been fully proofread.
७९०
बृहत्स्तोत्ररत्नाकरे
[ वृत्रस्तुतिः
मीडे ॥ ३ ॥ यदोपरामो मनसो नामरूपरूपस्य दृष्टस्मृतिसंप्र-
मोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसने
नमः ॥ ४ ॥ मनीषिणोऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च
त्रिवृद्भिः । वह्निं यथा दारुणि पाञ्चदश्यं मनीषया निष्कर्षन्ति
गूढम् ॥ ५ ॥ स वै ममाशेषविशेषमायानिषेधनिर्वाण सुखानुभूतिः ।
स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ ६ ॥
यद्यनिरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसा वोत यस्य ।
मा भूत् स्वरूपं गुणरूपं हि तत्तत् स वै गुणापायविसर्गलक्षणः
॥ ७ ॥ यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते
च । परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम्
॥ ८ ॥ यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति ।
कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमोऽनन्तगुणाय भूने ॥ ९ ॥
अस्तीति नास्तीति च वस्तुनिष्ठयोरेकस्थयोर्भिन्नविरुद्धधर्मयोः । अवे-
क्षितं किं च न योगसांख्ययोः समं परं ह्यनुकूलं बृहत्तत् ॥१०॥
योऽनुग्रहार्थं भजतां पादमूलमनामरूपो भगवाननन्तः । नामानि
रूपाणि च जन्मकर्मभिर्भेजे स मह्यं परमः प्रसीदतु ॥ ११ ॥
यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः
पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतान्मनोरथम् ॥ १२ ॥
इति हंसगुहास्तोत्रं संपूर्णम् ॥
४०४. वृत्रस्तुतिः ।
श्रीगणेशाय नमः ॥ अहं हरे तव पादैकमूलदासानुदासो भवि-
तास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु
कायः ॥ १ ॥ न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधि-
पत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य कांक्षे
॥ २ ॥ अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)