Proofing

This page has not been fully proofread.

हंसगुह्य स्तोत्रम् ]
 
संकीर्ण स्तोत्राणि
 
७८९
 
मग्नाः ॥ १९ ॥ तमक्षरं ब्रह्मपरं परेशमव्यक्तमाध्यात्मिगकयोग-
म्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरमनन्तमाद्यं परिपूर्णमीडे
॥ २० ॥ यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूप-
विभेदेन फल्ग्व्या च कलया कृताः ॥ २१ ॥ यथाऽर्चिषोऽग्नेः
सवितुर्गभस्तयो निर्यान्ति संयान्त्यसकृत् स्वरोचिषः । तथा
यतोऽयं गुणसंप्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥ २२ ॥ स वै
न देवासुरमतिर्यङ् न स्त्री न षण्ढो न पुमान्न जन्तुः । नायं
गुणः कर्म न सन्न चासन्निषेधशेषो जयतादशेषः ॥ २३ ॥
जिजीविषे नाहमिहामुयाकिमन्तर्बहिश्चावृतये भयो न्या । इच्छामि
कालेन न यस्य विप्लवस्तस्यात्मलोकावरणस्य मोक्षम् ॥ २४ ॥
सोऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म
प्रणतोऽस्मि परं पदम् ॥ २५ ॥ योगरन्धितकर्माणो हृदि योग-
विभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतोऽस्म्यहम्
॥ २६ ॥ नमो नमस्तुभ्यमसह्यवेगशक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २७ ॥
नाथं वेद स्वमात्मानं यच्छत्त्याहंधिया हृतम् । तं दुरत्ययमाहात्म्यं
भगवन्तमितोऽस्म्यहम् ॥ २८ ॥ इति गजेन्द्रस्तुतिः संपूर्णा ॥
४०३. हंसगुह्यस्तोत्रम् ।
 
श्रीगणेशाय नमः ॥ नमः परायावितथानुभूतये गुणत्रयाभासनिमि-
तबन्धवे । अष्टधान्ने गुणतत्त्वबुद्धिभिर्निवृत्तमानाय दधे स्वयंभुवे
॥ १ ॥ न यस्य सख्यं पुरुषोऽवैति सख्युः सखा वसन् संवसतः
पुरेऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस्तस्मै महेशाय नमस्क-
रोमि ॥ २ ॥ देहोऽसवोऽक्षा मनवो भूतमात्रा नात्मानमन्यं च
विदुः परं यत् ।
पुमान् वेद गुणांश्च तज्ज्ञो न वेद सर्वज्ञमनन्त-
 
सर्व
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)