2026-05-10 23:36:40 by ambuda-bot
This page has not been fully proofread.
७८८
बृहत्स्तोत्ररत्नाकरे
[ गजेन्द्रस्तुतिः
व्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ॥ ६ ॥ न विद्यते
यस्य च जन्मकर्म वा न नामरूपे गुणदोष एव वा । तथापि
लोकाप्ययसंभवाय यः स्वमायया तान्यनुकालमृच्छति ॥ ७ ॥
तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये । अरूपायोरुरूपाय नम
आश्चर्यकर्मणे ॥ ८ ॥ नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ ९ ॥ सत्त्वेन प्रतिलभ्याय
नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे
॥ १० ॥ नमः शान्ताय घोराय मूढाय गुणधर्मिणे । निर्विशेषाय
साम्याय नमो ज्ञानघनाय च ॥ ११ ॥ क्षेत्रज्ञाय नमस्तुभ्यं
सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः
॥ १२ ॥ सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असता छाययो-
काय सदाभासाय ते नमः ॥ १३ ॥ नमो नमस्तेऽखिलकारण। य
निष्कारणायाद्भुतकारणाय । सर्वागमाम्नाय महार्णवाय नमोऽप-
वर्गाय परायणाय ॥ १४ ॥ गुणारणिच्छन्नचिदूष्मपाय तत्क्षोभ-
विस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागमस्वयंप्रकाशाय
नमस्करोमि ॥ १५॥ मादृक्प्रपन्नपशुपाशविमोक्षणाय मुक्ताय
भूरिकरुणाय नमोऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ १६ ॥ आत्मात्मजाप्तगृहवित्त-
जनेषु सक्तैर्दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः
स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥ १७ ॥
यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवृन्ति । किं
त्वाशिषो रात्यपि देहमव्ययं करोतु मेऽदभ्रदयो विमोक्षणम्
11 १८ ॥ एकान्तिनो यस्य न कंचनार्थं वाञ्छन्ति ये वै भग-
चव्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्ति आनन्दसमुद्र-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)