2026-05-10 23:36:40 by ambuda-bot
This page has not been fully proofread.
७८६
बृहत्स्तोत्ररत्नाकरे
[ कर्दमस्तुतिः
चरंस्तदभिश्रमेण । नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया
महदनुग्रहमन्तरेण ॥ ४ ॥ ज्ञानं यदेतददधात् कतमः स देव-
स्त्रैकालिकं स्थिरचरेष्वनुवर्तितांशः । तं जीवकर्मपदवीमनुवर्तमाना-
स्तापत्रयोपशमनाय वयं भजेम ॥ ५ ॥ देह्यन्यदेहविवरे जठराग्नि-
नासृग्विण्मूत्रकूपपतितो भृशतप्तदेहः । इच्छन्नितो विवसितुं
गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ ६ ॥
येनेदृशीं गतिमसौ दशमास्य ईश संग्राहितः पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथः को नाम तत् प्रति विनाञ्जलि-
मस्य कुर्यात् ॥ ७ ॥ पश्यत्ययं धिषणया ननु सप्तवधिः शारीरके
दमशरीर्यपरः स्वदेहे । यत्सृष्टयास तमहं पुरुषं पुराणं पश्ये
बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ ८ ॥ सोऽहं वसन्नपि विभो
बहुदुःखवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे । यत्रोपयात-
मुपसर्पति देवमाया मिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ ९ ॥
तस्मादहं विगतविक्लव उद्धरिष्ये आत्मानमाशु तमसः सुहृदात्म-
नैव । भूयो यथा व्यसनमेतदनेकरन्धं मा मे भविष्यदुपसादित-
विष्णुपादः ॥ १० ॥ इति जीवस्तुतिः संपूर्णा ॥
४०१. कर्दमस्तुतिः ।
श्रीगणेशाय नमः ॥ जुष्टं बताद्याऽखिलसत्त्वराशेः सांसिध्य
मक्ष्णोस्तव दर्शनान्नः । यद्दर्शनं जन्मभिरीड्य सद्भिराशासते
योगिनो रूढयोगाः ॥ १ ॥ ये मायया ते हतमेधसस्त्वत्पादार-
विन्दं भवसिन्धुपोतम् । उपासते कामलवाय तेषां रासीश कामान्
निरयेऽपि ये स्युः ॥ २ ॥ तथा स चाहं परिवोढुकामः समान-
शीलां गृहमेधधेनुम् । उपेयिवान् मूलमशेषमूलं दुराशयः काम-
दुघाङ्घ्रिपस्य ॥ ३ ॥ प्रजापतेस्ते वचसाधीश तन्त्या लोकः किलायं
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)