Proofing

This page has not been fully proofread.

जीवस्तुतिः ]
 
संकीर्णस्तोत्राणि
 
७८५
 
मास्तु ॥ ४ ॥ व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य
दोषबुच्या । कुमतिमहरदात्मविद्यया यश्चरणरतिः परमस्य तस्य
मेऽस्तु ॥ ५ ॥ स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवलुतो
रथस्थः । धृतरथचरणोऽभ्ययाच्ञ्चलद्गुर्हरिरिव हन्तुमिभं गतोत्तरीयः
॥ ६ ॥ शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो
मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः
॥ ७ ॥ विजयरथकुटुम्ब भात्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गताः सरूपम्
॥ ८ ॥ ललितगतिविलासवल्गुहासप्रणय निरीक्षण कल्पितोरुमानाः
कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिमगन् किल यस्य गोपवध्वः
॥ ९ ॥ मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय
एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशि गोचर एष
आविरात्मा ॥ १० ॥ तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठि-
तमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि
विधूतभेदमोहः ॥ ११ ॥ इति भीष्मस्तुतिः संपूर्णा ॥
४००. जीवस्तुतिः ।
 
श्रीगणेशाय नमः ॥ तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि
'चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी.
गतिरदसतोऽनुरूपा ॥ १ ॥ यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारम-
खण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ २ ॥ यः पञ्चभूत-
रचिते रहितः शरीरे छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयोः पुमांसम्
॥ ३ ॥ यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)