Proofing

This page has not been fully proofread.

७८४
 
बृहत्स्तोत्ररत्नाकरे
 
[ भीष्मस्तुतिः
जठरीकृतलोकयात्रः । अन्तर्जलेऽहिकशिपुस्पर्शानुकूलां भीमोर्मिं-
मालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥ यन्नाभिपद्मभवनादह-
मासमीड्य लोकत्रयोपकरणो यदनुग्रहेण । तस्मै नमस्त उदरस्थ-
भवाय योगनिद्रावसानविकसन्नलिनेक्षणाय ॥ २१
॥ सोऽयं
समस्तजगतां सुहृदेक आत्मा सत्त्वेन यन्मृडयते भगवान्भगेन ।
तेनैव मे दृशमनुस्पृशताद्यथाहं स्त्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ
॥ २२ ॥ एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत् करिष्यति
गृहीतगुणावतारः । तस्मिन् स्वविक्रममिदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥ नाभिहदादिह
सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं
विचित्रमिदमस्य विवृण्वतो मे मारीरिषीष्ट निगमस्य गिरां
विसर्गः ॥ २४ ॥ सोऽसावदभ्रकरुणो भगवान् विवृद्धप्रेम स्मितेन
नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्वविजयाय च नो विषादं
माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ २५ ॥ इति ब्रह्मस्तुतिः
संपूर्णा ॥
 
३९९. भीष्मस्तुतिः ।
 
श्रीगणेशाय नमः ॥ इति मतिरुपकल्पिता वितृष्णा भगवति
सात्वतपुङ्गवे विभूनि । स्वसुखमुपगते क्वचिद्विहतुं प्रकृतिमुपेयुषि
यद्भवप्रवाहः ॥ १ ॥ त्रिभुवनकमनं तमालवर्णं रविकरगौरव राम्बरं
दधाने । वपुरलककुलावृताननानं विजयसखे रतिरस्तु मेऽनवद्या
॥ २ ॥ युधि तुरगरजोविधूम्रविश्वक्वचलुलितश्रमवार्यलंकृतास्ये ।
मम निशितशरैर्विभिद्यमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा
॥ ३ ॥ सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं
निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्म -
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)