2026-05-10 23:36:39 by ambuda-bot
This page has not been fully proofread.
ब्रह्मस्तुतिः ]
.
संकीर्ण स्तोत्राणि
७८३
याना नानामनोरथधिया क्षणभग्ननिद्राः । दैवाहतार्थरचना
ऋषयोऽपि देव युष्मव्यसंगविमुखा इह संसरन्ति ॥ १० "
त्वं भावयोगपरिभावितहृत्सरोज आस्से श्रुतेक्षितपथो ननु
नाथ पुंसाम् । यद्यद्धिया त उरुगाय विभावयन्ति तत्तद्वपुः
प्रणयसे सदनुग्रहाय ॥ ११ ॥ नातिप्रसीदति तथोपचितोपचारै-
राराधितः सुरगणैर्हृदि बद्धकामः । यत्सर्वभूतदयया सद-
लभ्ययैको नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥ पुंसा-
मतो 'विविधकर्मभिरध्वराद्यैर्दानेन चोग्रतपसा व्रतचर्यया च ।
आराधनं भगवतस्तव सत्क्रियार्थो धर्मोऽर्पितः कर्हिचिड्रियते न
यत्र ॥ १३ ॥ शश्वत्स्वरूपमहसैव निपीतभेदमोहाय बोध-
धिषणाय नमः परस्मै । विश्वोद्भवस्थितिलयेषु निमित्तलीला-
रासाय ते नम इदं चकुमेश्वराय ॥ १४ ॥ यस्यावतारगुणकर्म-
विडम्बनानि नामानि येऽसुविगमे विवशा गृणन्ति । तेनैकजन्म-
शमलं सहसैव हित्वा संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५ ॥
यो वा अहं च गिरिशश्च विभुः स्वयं च स्थित्युद्भवप्रलयहेतव
आत्ममूलम् । भित्त्वा त्रिपाद्ववृध एक उरुप्ररोहस्तस्मै नमो भगवते
भुवनद्रुमाय ॥ १६ ॥ लोको विकर्मनिरतः कुशले प्रमत्तः कर्म-
ण्ययं त्वदुदिते भवदर्चने स्वे । यस्तावदस्य बलवानिह जीविताशां
सद्यरिंछनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥ यस्माद्विभेम्यह-
मपि द्विपरार्धधिष्ण्यमध्यासितः सकललोकनमस्कृतं यत् । तेपे तपो
बहुसवोऽवरुरुत्समानस्तस्मै नमो भगवतेऽधिमखाय तुभ्यम् ॥ १८ ॥
तिर्यङ्मनुष्यविबुधादिषु जीवयोनिष्वात्मेच्छयात्मकृत सेतु परीप्सया
यः । रेमे निरस्तरतिरप्यवरुद्ध देहस्तस्मै नमो भगवते पुरुषोत्त-
माय ॥ १९ ॥ यो विद्ययानुपहतोऽपि दशार्धवृत्त्या निद्रामुवाह
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)