2026-05-10 23:36:39 by ambuda-bot
This page has not been fully proofread.
७८२
बृहत्स्तोत्ररत्नाकरे
३९८. ब्रह्मस्तुतिः ।
[ ब्रह्मस्तुतिः
श्रीगणेशाय नमः ॥ ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम् । नान्यत्त्वदस्ति भगवन्नपि
तन्न शुद्धं मायागुणव्यतिकराद्यदुरुर्विभासि ॥ १ ॥ रूपं
यदेतदवबोधरसोदयेन शश्वन्निवृत्ततमसः सदनुग्रहाय
आदौ गृहीतमवतारशतैकबीजं यन्नाभिपद्मभवनादहमा विरासम्
॥ २ ॥ नातः परं परम यद्भवतः स्वरूपमानन्दमात्रम विकल्पम-
विद्धवर्चः । पश्यामि विश्वसृजमेकमविश्वमात्मन् भूतेंद्रियात्मक-
मदस्त उपाश्रितोऽस्मि ॥ ३ ॥ तद्वा इदं भुवनमङ्गल मङ्ग-
लाय ध्याने स्म नो दर्शितं त उपासकानाम् । तस्मै नमो भग-
वत्तेऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसप्रसङ्गैः ॥ ४ ॥
ये तु त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैः
श्रुतिवातनीतम् । भक्त्या गृहीतचरणः परया च तेषां नापैषि
नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ ५ ॥ तावद्भयं द्रविण-
गेहसुहृन्निमित्तं शोकः स्पृहा परिभवो विपुलश्च लोभः । ताव-
न्ममेत्यसदवग्रह भार्तिमूलं यावन्न तेंऽघ्रिमभयं प्रवृणीत लोकः
॥ ६ ॥ दैवेन ते हतधियो भवतः प्रसङ्गात् सर्वाशुभोपशमना-
द्विमुखेंद्रिया ये । कुर्वन्ति कामसुखलेशलवाय दीना लोभाभि-
भूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥ क्षुत्तृविधातुभिरिमा
मुहुरर्द्यमानाः शीतोष्णवातवर्षैरितरेतराच्च । कामाग्निनाच्युत
रुषा च सुदुर्भरेण संपश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
यावत्पृथक्त्वमिदमात्मन इन्द्रियार्थ मायाबलं भगवतो जन
ईश पश्येत् । तावन्न संसृतिरसौ प्रतिसंक्रमेत व्यर्थापि दुःख-
निवहं वहती क्रियार्थी ॥ ९ ॥ अह्वयापृतार्तकरणा निशि निःश-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)