2026-05-10 23:36:38 by ambuda-bot
This page has not been fully proofread.
कुन्तीस्तुतिः ]
संकीर्णस्तोत्राणि
७८१
गोप्याददे त्वयि कृतागसि दाम तावद्या ते दशाश्रुकलिलाञ्जन-
संभ्रमाक्षम् । वक्रं निनीय भयभावनया स्थितस्य सा मां विमोह-
यति भीरपि यद्विभेति ॥ १४ ॥ केचिदाहुरजं जातं पुण्यश्लोकस्य
कीर्तये । यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ १५ ॥
अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय
वधाय च सुरद्विषाम् ॥ १६ ॥ भारावतरणायान्ये भुवो नाव इवो-
दधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ १७ ॥
भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभिः । श्रवणस्मरणार्हाणि
करिष्यन्निति केचन ॥ १८ ॥ शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः
स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ॥ १९ ॥ अप्यद्य नस्त्वं स्वकृतेहित-
प्रभो जिहाससि स्वित् सुहृदोऽनुजीविनः । येषां न चान्यद्भवतः
पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ २० ॥ के वयं
नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतोऽदर्शनं यर्हि हृषी-
काणामिवेशितुः ॥ २१ ॥ नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ २२ ॥ इमे जनपदाः
स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्विनद्युदन्वन्तो धन्ते तव
वीक्षितैः ॥ २३ ॥ अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्नेहपाशमिमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ २४ ॥ त्वयि मेऽन-
न्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति
॥ २५ ॥ श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिधुग्राजन्यवंशदहनान-
पवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो
भगवन् नमस्ते ॥ २६ ॥ इति कुन्तीस्तुतिः संपूर्णा ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)