2026-05-10 23:36:38 by ambuda-bot
This page has not been fully proofread.
संकीर्णस्तोत्राणि ।
३९७. कुन्तीस्तुतिः ।
श्रीगणेशाय नमः ॥ नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृतेः परम् ।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १ ॥ मायाजवनिकाच्छ-
नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाव्यधरो यथा
॥ २ ॥ तथा परमहंसानां मुनीनाममलात्मनाम् । भक्तियोगविधा-
नार्थं कथं पश्येमहि स्त्रियः ॥ ३ ॥ कृष्णाय वासुदेवाय देवकी-
नन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ४ ॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते
पङ्कजाङ्घये ॥ ५ ॥ यथा हृषीकेश खलेन देवकी कंसेन रुद्धाति-
चिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन
मुहुर्विपद्गुणात् ॥ ६ ॥ विषान्महाग्नेः पुरुषाददर्शनादसत्सभाया
वनवासकृच्छ्रतः । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्वतश्चास्म
हरेऽभिरक्षिताः ॥ ७ ॥ विपदः सन्तु नः शश्वत्तत्र तत्र जग-
गुरो । भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम् ॥ ८ ॥ जन्मैश्वर्य-
श्रुतश्रीभिरेधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वामकिंचन-
गोचरम् ॥ ९ ॥ नमोऽकिंचनवित्ताय निवृत्तगुणवृत्तये । आत्मा-
रामाय शान्ताय कैवल्यपतये नमः ॥ १० ॥ मन्ये त्वां कालमी-
शानमनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन्मिथः
कलिः ॥ ११ ॥ न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां
विडम्बनम् । न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्वेष्यश्च यस्मि-
न्विषमा मतिर्नृणाम् ॥ १२ ॥ जन्म कर्म च विश्वात्मन्नजस्याकर्तु-
रात्मनः । तिर्यङ्नृषिषु यादःसु तदत्यन्तविडंबनम् ॥ १३ ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)