Proofing

This page has not been fully proofread.

तत्त्वमसि स्तोत्रम् ]
 
वेदांतस्तोत्राणि
 
७७९
 
द्वैते प्राप्तौ यत्नः सति वा द्वैते बाधे यतः ॥ द्वैताद्वैते ते संकल्प-
स्त्यज रे शेषं तत्त्वमसि ॥ ८ ॥ साक्षित्वं यदि दृश्यं सत्यं दृइया-
सत्त्वे साक्षी त्वं कः ॥ उभयाभावे दर्शनमपि किं तूष्णीं भव रे
तत्त्वमसि ॥ ९ ॥ प्रज्ञानामल विग्रहनिजसुखजृम्भणमेतन्नेतरथा ॥
तस्मान्नैवादेयं हेयं तूष्णीं भव रे तत्त्वमसि ॥ १० ॥ ब्रह्मैवाहं
ब्रह्मैव त्वं ब्रह्मैकं वा नान्यत्किञ्चित् ॥ निश्चित्येत्थं निजसमसुख-
भुक्तूष्णीं भव रे तत्त्वमसि ॥ ११ ॥ एतत्स्तोत्रं प्रपठता विचार्य
गुरुवाक्यतः ॥ प्राप्यते ब्रह्मपदवी सत्यं सत्यं न संशयः ॥ १२ ॥
इति श्रीमत्परमहंस कृष्णानन्द सरस्वतीविरचितं तत्त्वमसिस्तोत्रं
संपूर्णम् ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)