2026-05-10 23:36:38 by ambuda-bot
This page has not been fully proofread.
७७८
बृहत्स्तोत्ररत्नाकरे
[ तत्त्वमसिस्तोत्रम्
भागलक्षणा । सोऽहमित्यादिवाक्यस्थपदयोरिव नापरा ॥ ४८ ॥
अब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् । शमादिसहितस्तावदभ्य-
सेच्छ्रवणादिकम् ॥ ४९ ॥ श्रुत्याचार्यप्रसादेन दृढो बोधो यदा
भवेत् । निरस्ताशेषसंसारनिदानः पुरुषस्तदा ॥ ५० ॥ विशीर्ण-
कार्यकरणो भूतसूक्ष्मैरनावृतः । विमुक्तकर्मनिगडः सद्य एव विमुच्यते
॥ ५१ ॥ प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् । किंचित्काल-
मनारब्धकर्मबंधस्य संक्षये ॥ ५२ ॥ निरस्तातिशयानंदं वैष्णवं
'परमं पदम् । पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥ ५३ ॥ इति
श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचिता वाक्यवृत्तिः
समाप्ता ॥
३९६. तत्त्वमसि स्तोत्रम् ।
श्रीगणेशाय नमः ॥ मनःकल्पितमेवेदं जगज्जीवेशकल्पनम् ॥
तदेकं सम्परित्यज्य निर्वाणमनुभूयताम् ॥ १ ॥ सति सर्वस्मिन्
सर्वज्ञत्वं सत्यल्पे वा स्वल्पज्ञत्वम् ॥ सर्वाल्पस्याभावे कस्माज्जी-
वेशौ वा तत्त्वमसि ॥ २ ॥ सत्यां व्यष्टौ जीवोपाधिः सति सर्व-
स्मिन्नीशोपाधिः ः ॥ व्यष्टिसमष्ट्योर्ज्ञाने कस्माज्जीवेशौ वा तत्त्वमसि
॥ ३ ॥ सत्यज्ञाने जीवत्वोक्तिर्मायासत्त्वे त्वीशत्वोक्तिः ॥ माया-
विद्याबाधे कस्माज्जीवेशौ वा तत्त्वमसि ॥ ४ ॥ सति वा कार्ये कार-
णतोक्तिः कारणसत्त्वे कार्यत्वोक्तिः ॥ कार्यकारणभावे कस्माज्जीवेशौ
वा तत्त्वमसि ॥ ५ ॥ सति भोक्तव्ये भोक्ताऽयं स्याद्दातव्ये वा दाता
स स्यात् ॥ भोग्यो विध्यो भावे कस्माज्जीवेशौ वा तत्त्वमसि
॥ ६ ॥ सत्यज्ञाने गुरुणा बाध्यं सति वा द्वैते शिष्यैर्भाव्यम् ॥
अद्वैतात्मनि गुरुशिष्यौ कौ त्यज रे भेदं तत्त्वमसि ॥ ७ ॥ सत्य-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)