Proofing

This page has not been fully proofread.

वाक्यवृत्तिः ]
 
वेदांतस्तोत्राणि
 
७७७
 
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् । मृदाद्यनेकदृष्टांतैस्तद्ब्रह्मे-
त्यवधारय ॥ ३२ ॥ यदानंत्यं प्रतिज्ञाय श्रुतिस्तास्सिद्धये जगौ ।
तत्कार्यत्वं प्रपंचस्य तद्ब्रह्मेत्यवधारय ॥ ३३ ॥ विजिज्ञास्यतया यच्च
वेदांतेषु मुमुक्षुभिः । समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ॥ ३४ ॥
जीवात्मना प्रवेशश्च नियंतृत्वं च तान् प्रति । श्रूयते यस्य वेदेषु
तद्ब्रह्मेत्यवधारय ॥ ३५॥ कर्मणां फलदातृत्वं यस्यैव श्रूयते श्रुतौ ।
जीवानां हेतुकर्तृत्वं तद्ब्रह्मेत्यवधारय ॥ ३६ ॥ तत्त्वंपदार्थों निर्णीतौ
वाक्यार्थश्चित्यतेऽधुना । तादात्म्यमत्र वाक्यार्थस्तयोरेव पदार्थयो:
॥ ३७ ॥ संसर्गे वा विशिष्टो वा वाक्यार्थो नात्र संमतः । अखंडै-
करसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८ ॥ प्रत्यग्बोधो य आभाति
सोऽद्वयानंदलक्षणः । अद्वयानंदरूपश्च प्रत्यग्बोधैकलक्षणः ॥ ३९ ॥
इत्थमन्योन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् । अब्रह्मत्वं त्वमर्थस्य
व्यावर्तेत तदैव हि ॥ ४० ॥ तदर्थस्य च पारोक्ष्यं यद्येवं किं तत :
शृणु । पूर्णानंदैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥ ४१ ॥ तत्त्वमस्या-
दिवाक्यं च तादात्म्यप्रतिपादने । लक्ष्यौ तत्त्वंपदार्थों द्वावुपादाय
प्रवर्तते ॥ ४२ ॥ हित्वा द्वौ शबलौ वाच्यो वाक्यं वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥ ४३ ॥ आलंबन-
तया भाति योऽस्मव्यत्ययशब्दयोः । अंतःकरणसंभिन्नबोधः स
त्वंपदाभिधः ॥ ४४ ॥ मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः ॥ ४५ ॥ प्रत्यक् परोक्ष-
तैकस्य सद्वितीयत्वपूर्णता । विरुध्यते यतस्तस्मालक्षणा संप्रवर्तते
॥ ४६ ॥ मानांतरविरोधे तु मुख्यार्थस्य परिग्रहे । मुख्यार्थेना-
विनाभूते प्रतीतिर्लक्षणोच्यते ॥ ४७ ॥ तत्त्वमस्यादिवाक्येषु लक्षणा
. MPL Sastry Library Free Digitisation indoscripts.org (ISRT)