2026-05-10 23:36:38 by ambuda-bot
This page has not been fully proofread.
७७६
बृहत्स्तोत्ररत्नाकरे
वाक्यवृत्तिः
सर्वथा न घटो यथा । देहद्रष्टा तथा देहो नाहमित्यवधारय ॥१५॥
एवमिंद्रियदृङ्नाहमिंद्रियाणीति निश्चिनु । मनो बुद्धिस्तथा प्राणो
नाहमित्यवधारय ॥ १६ ॥ संघातो हि तथा नाहमिति दृश्यविल-
क्षणम् । द्रष्टारमनुमानेन निपुणं संप्रधारय ॥ १७ ॥ देहेंद्रिया-
दयो भावा हानादिव्यापृतिक्षमाः । यस्य सन्निधिमात्रेण सोऽह-
मित्यवधारय ॥ १८॥ अन्नादन्नविकारः सन्नयस्कांतवदेव यः ।
वृद्ध्यादींश्चालयेत्प्रत्यक् सोऽहमित्यवधारय ॥ १९ ॥ भजडात्मवदा-
भांति यत्सान्निध्याज्जडा अपि । देहेंद्रियमनः प्राणाः सोऽहमित्य-
वधारय ॥ २० ॥ अगमन्मे मनोऽन्यत्र सांप्रतं च स्थिरीकृतम् ।
एवं यो वेत्ति घीवृत्तिं सोऽहमित्यवधारय ॥ २१ ॥ स्वप्नजागरिते
सुप्तिं भावाभावौ धियां तथा । यो वेत्त्यविक्रियः साक्षात्सोऽहमित्य-
वधारय ॥ २२ ॥ घटावभासको दीपो घटादन्यो यथेष्यते । देहा-
वभासको देही तथाहं बोधविग्रहः ॥ २३ ॥ पुत्रवित्तादयो भावा
यस्य शेषतया प्रियाः । द्रष्टा सर्वप्रियतमः सोऽहमित्यवधारय
॥ २४ ॥ परप्रेमास्पदतया मा न भूवमहं सदा । भूयासमितियो
द्रष्टा सोऽहमित्यवधारय ॥ २५ ॥ यः साक्षिलक्षणो बोधस्त्वं-
पदार्थः स उच्यते । साक्षित्वमपि बोद्धृत्वमविकारितयाऽऽत्मनः
॥ २६ ॥ देहेंद्रियमनःप्राणाहंकृतिभ्यो विलक्षणः । प्रोज्झिताशेष-
षड्भावविकारस्त्वंपदाभिधः ॥ २७ ॥ त्वमर्थमेवं निश्चित्य तदर्थ
चिंतयेत्पुनः । अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ॥ २८ ॥
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः । अदृश्यत्वादिगुणकः परा-
कृततमोमलः ॥ २९ ॥ निरस्तातिशयानंदः सत्यप्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परात्मेति गीयते ॥ ३० ॥ सर्वज्ञत्वं परेशत्वं
तथा संपूर्णशक्तिता । वेदैः समर्थ्यते यस्य तद्ब्रह्मेत्यवधारय ॥३१॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)