Proofing

This page has not been fully proofread.

वाक्यवृत्तिः ]
 
वेदांतस्तोत्राणि
 
३९५. वाक्यवृत्तिः ।
 
७७५
 
श्रीगणेशाय नमः ॥ सर्गस्थितिप्रलयहेतुमचिंत्यशक्तिं विश्वेश्वरं विदि-
तविश्वमनंतमूर्तिम् । निर्मुक्तबंधनमपारसुखांबुराशिं श्रीवल्लभं विम-
लबोधधनं नमामि ॥ १ ॥ यस्य प्रसादादहमेव विष्णुर्मय्येव सर्व
परिकल्पितं च । इत्थं विजानामि सदात्मरूपस्तस्यांघ्रिपद्मं प्रणतोऽस्मि
नित्यम् ॥ २ ॥ तापत्रयार्कसंतप्तः कश्चिदुद्विग्नमानसः । शमादि-
साधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ अनायासेन येनास्मान्मुच्येयं
भवबंधनात् । तन्मे संक्षिप्य भगवन्कैवल्यं कृपया वद ॥ ४ ॥
साध्वी ते वचनव्यक्तिः प्रतिभाति वदामि ते । इदं तदिति विस्पष्टं
सावधानमनाः श्रृणु ॥ ५ ॥ तत्त्वमस्यादिवाक्योत्थं यज्जीवपर-
मात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६ ॥
को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादि-
वाक्यं वा कथं तव्प्रतिपादयेत् ॥ ७ ॥ अत्र ब्रूमः समाधानं कोऽन्यो
जीवस्त्वमेव हि । यस्त्वं पृच्छसि मां कोऽहं ब्रह्मवासि न संशयः
॥ ८ ॥ पदार्थमेव जानामि नाद्यापि भगवन् स्फुटम् । अहंब्रह्मेति
वाक्यार्थ प्रतिपद्ये कथं वद ॥ ९ ॥ सत्यमाह भवानत्र विज्ञानं
नैव विद्यते । हेतुः पदार्थबोधो हि वाक्यार्थावगतेरिह ॥ १० ॥
अंतःकरणतद्वृत्तिसाक्षी चैतन्यविग्रहः । आनंदरूपः सत्यः सन् किं
नात्मानं प्रपद्यसे ॥ ११ ॥ सत्यानंदस्वरूपं धीसाक्षिणं बोधविग्रहम् ।
चिंतयात्मतया नित्यं त्यक्त्वा देहादिगां धियम् ॥ १२ ॥ रूपादिमान्
यतः पिंडस्ततो नात्मा घटादिवत् । वियदादिमहाभूतविकारत्वाच्च
कुंभवत् ॥ १३ ॥ अनात्मा यदि पिण्डोऽयमुक्तहेतुबलान्मतः ।
करामलकवत्साक्षादात्मानं प्रतिपादय ॥ १४ ॥ घटद्रष्टा घटाद्भिन्नः
 
५०
 
Mo 90stry Library Free Digitisation indoscripts.org (ISRT)