2026-05-10 23:36:37 by ambuda-bot
This page has not been fully proofread.
७७४
बृहत्स्तोत्ररत्नाकरे
३९३. कौपीनपञ्चकस्तोत्रम् ।
[ परा पूजा
श्रीगणेशाय नमः ॥ वेदान्तवाक्येषु सदा रमन्तो भिक्षान्नमात्रेण
च तुष्टिमन्तः । अशोकवन्तः करुणैकवन्तः कौपीनवन्तः खलु
भाग्यवन्तः ॥ १ ॥ मूलं तरोः केवलमाश्रयन्तः पाणिद्वयं भोक्तु-
ममत्रयन्तः । कन्थामपि स्त्रीमिव कुत्सयन्तः कौपीनवन्तः खलु०
॥ २ ॥ देहाभिमानं परिहृत्य दूरादात्मानमात्मन्यवलोकयन्तः ।
अहर्निशं ब्रह्मणि ये रमन्तः कौपीनवन्तः खलु० ॥ ३ ॥ स्वानन्द-
भावे परितुष्टिमन्तः स्वशान्तसर्वेन्द्रियवृत्तिसन्तः । नान्तं न मध्यं
न बहिः स्मरन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ४ 11
पञ्चाक्षरं पावनमुच्चरन्तः पतिं पशूनां हृदि भावयन्तः । भिक्षा-
शना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ ॥
इति कौपीनपञ्चकस्तोत्रं संपूर्णम् ॥
३९४. परा पूजा ।
श्रीगणेशाय नमः ॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ १ ॥ निर्मलस्य कुतः
स्नानं वस्त्रं विश्वोदरस्य च । निरालंबस्योपवीतं पुष्पं निर्वासनस्य च
॥ २ ॥ निर्लेपस्य कुतो गंधो रम्यस्याभरणं कुतः । नित्यतृप्तस्य
नैवेद्यस्तांबूलं च कुतो विभोः ॥ ३ ॥ प्रदक्षिणा ह्यनंतस्य ह्यद्वयस्य
कुतो नतिः । वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥ ४ ॥
स्वयंप्रकाशमानस्य कुतो नीराजनं विभोः । अंतर्बहिश्च पूर्णस्य
कथमुद्वासनं भवेत् ॥ ५ ॥ एवमेव परा पूजा सर्वावस्थासु सर्वदा ।
एकबुद्ध्या तु देवेशे विधेया ब्रह्मवित्तमैः ॥ ६ ॥ इति परा पूजा
संपूर्णा ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)