2026-05-10 23:36:37 by ambuda-bot
This page has not been fully proofread.
मनीषापंचकम् ]
वेदांतस्तोत्राणि
३९२. मनीषापंचकम् ।
७७३
श्रीगणेशाय नमः ॥ सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् ।
काशीक्षेत्रं प्रति सहगौर्या मार्गे तु शंकरम् ॥ १ ॥ अंत्यवेषधरं
दृष्ट्वा गच्छ गच्छेति चाब्रवीत् । शंकरः सोऽपि चांडालस्तं पुनः प्राह
शंकरम् ॥ २ ॥ अन्नमयादन्नमयं ह्यथवा चैतन्यमेव चैतन्यात् ।
द्विजवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ ३ ॥ किं
गंगांबुनि बिंबितेंऽबरमणौ चंडालवाटीपयः पूरे चांतरमस्ति कांचन-
घटी मृत्कुंभयोर्वांबरे । प्रत्यग्वस्तुनि निस्तरंगसहजानंदावबोधाम्बुधौ
विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेदभ्रमः ॥ ४ ॥
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादिपि-
पीलिकांततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति
दृढप्रज्ञापि यस्यापि चेच्चांडालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा
मनीषा मम ॥ ५ ॥ ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्र विस्तारितं
सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् । इत्थं यस्य दृढा
मतिः सुखतरे नित्ये परे निर्मले चांडालोऽस्तु स तु० ॥ ६ ॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोर्नित्यं ब्रह्म निरंतरं
विमृशता निर्व्याजशांतात्मना । भूतं भावि च दुष्कृतं प्रदहता संवि-
न्मये पावकें प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ७ ॥
या तिर्यङ्नरदेवताभिरहमित्यंतः स्फुटा गृह्यते यद्भासा हृदयाक्ष-
देहविषया भांति स्वतोऽचेतनाः । तां भास्यैः पिहितार्कमंडलनिभां
स्फूर्ति सदा भावयन् योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम
॥ ८ ॥ यत्सौख्यांबुधिलेशलेशत इमे शक्रादयो निर्वृता यश्चित्ते
नितरां प्रशांतकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन्नित्यसुखांबुधौ
गलितधर्ब्रह्मैव न ब्रह्मविद्यः कश्चित्स सुरेंद्रवंदितपदो नूनं मनीषा
मम ॥ ९ ॥ इति मनीषापंचकं संपूर्णम् ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)