2026-05-10 23:36:37 by ambuda-bot
This page has not been fully proofread.
७७२
बृहत्स्तोत्ररत्नाकरे
[ भ्रष्टाष्टकम्
संशयो महाशत्रुः ॥ १४ ॥ कः शोभते नितान्तं निःस्पृहताशालि-
निजबोधः । किं याच्यं सद्गुरुषु स्त्रोद्धारः सर्वदैन्यपरिहारः ॥ १५ ॥
को वा मान्यः सिद्धो बालोऽपि ब्रह्मभावमतिमान् यः । का वा दरि-
द्वसीमा मूढप्रियसिद्ध्यहंकृतिः प्रोक्ता ॥ १६ ॥ किं सोढव्यं विदुषा
खलवचनं विषविनिर्मितं कठिनम् । स्थेयं कथं खलेषु स्वीयां
निष्ठां दृढं समाच्छाद्य ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य-
कृष्णानन्दसरस्वतीविरचिता प्रश्नोत्तरमालिका संपूर्णा ॥
३९१. भ्रष्टाष्टकम् ।
श्रीगणेशाय नमः ॥ विश्वं सत्यं मनुते तनुते कर्माणि लोकसं-
सिद्ध्यै । वाचा मिथ्या जगदिति जल्पति नो वेत्ति यो महाभ्रष्टः
॥ १ ॥ ब्रह्मैवेदं जल्पति दोषादोषोत्तमाधमान् पश्यन् । नग्नो भूत्वा
विचरस्यवधूतत्वं प्रदर्शयन् भ्रष्टः ॥ २ ॥ कृत्याकृत्यमशेषं त्यक्तुम-
शक्तं श्रुतेरगोचरताम् । भ्रात्मनि जल्पन्हास्यास्पदतामित्येष मानवो
भ्रष्टः ॥ ३ ॥ पाशाष्टकसंकष्टश्लिष्टतनुर्मृष्टभोजनप्रीतः । शिष्टोऽहं
मन्वानः कष्टमहो दुष्टमानवो भ्रष्टः ॥ ४ ॥ आत्मैवेदं जल्पन् लोको-
क्तीरसहमानमेधावी । स्तुतिवाक्यानि श्रोतुं धावंस्तुष्टो न किं
भवेन्द्रष्टः ॥ ५ ॥ यस्मिन्स्वस्य च निष्ठा तद्धर्मिष्ठानशिष्टगणना-
याम् । कुर्वन्कर्म हतोऽयं यद्यपि शिष्टो न किं भवेद्भ्रष्टः ॥ ६ ॥
कर्तृत्वं भोक्तृत्वं मन्वानः स्वात्मनि प्रभौ शंभौ । रोदिति हा किं
कृतमिति किं वा भोक्तव्यमित्यसौ भ्रष्टः ॥ ७ ॥ चिन्मात्र
स्वात्मानं देहं मन्वान एजते यमतः । सर्वात्मानमबुद्ध्वा ब्रह्मापि
स्यादहो किल भ्रष्टः ॥ ८ ॥ भ्रष्टाष्टकमेतद्यत्प्रविचारयतीह मानवो
धन्यः । मान्यः स्याल्लोकेषु भ्रष्टत्वं वेत्ति निजचारित्रात् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमत्कृष्णानन्दसरस्वतीविरचितं
भ्रष्टाष्टकं संपूर्णम् ॥
I
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)