Proofing

This page has not been fully proofread.

प्रश्नोत्तरमालिका ]
 
वेदांतस्तोत्राणि
 
३९०. प्रश्नोत्तरमालिका ।
 
७७१
 
श्रीगणेशाय नमः ॥ किं साध्यं मनुजानां बुद्धेः शुद्धत्वमेव बहु-
यतैः । किं त्याज्यं खलसङ्गो देहाहंकारममते च ॥ १ ॥ किं तीर्थं
वेदशिरः किं देयं पात्र आत्मसंबोधः । किं भोग्यं सहजसुखं किं
वाऽभोग्यं परेच्छया लब्धम् ॥ २ ॥ किं कष्टं यत्सत्यं किं वा
सहजं परं ब्रह्म । कर्तव्यं किं सर्वैरात्माऽकर्तेति बुद्धिरेव सदा
॥ ३ ॥ श्रादातुं संत्यक्तुं किमशक्यं ब्रह्म निजरूपम् । किं वा
दुःखमबोधः किं सुखमात्मावबोधतः शान्तिः ॥ ४ ॥ विषमं विषं
तु किं वा यत्किंचित्कस्यचिच्च या चिन्ता । परमामृतं तु किं वा
श्रीगुरुवाक्यं कृपानिबिडम् ॥ ५ ॥ को गुरुरधिमन्तव्यो देशिक-
शिष्यत्वबाधबोधयिता । अध्येतव्यं किं खलु यावद्वेदार्थदर्शकः
प्रणवः ॥ ६ ॥ कोऽनध्यायोऽध्ययने यावत्सद्गुरुमलब्धवांस्तावत् ।
कः प्रणवार्थस्तूष्णीं किं ध्येयं ध्येयमान्त्रसंत्यागः ॥ ७ ॥ कः शूरो
दृङ्मात्रान्मायामेत्ता स्वयंप्रकाशज्ञः । किं चिन्त्यं मनुजैरिह चिन्ता-
बीजं विचित्रजगत इति ॥ ८ ॥ किं पेशलं हि लोके विद्वच्चरितं
विरुद्धशास्त्रमपि । सद्भक्त्या किं कार्यं सज्जनपदरजसि भूयसः
स्नानम् ॥ ९ ॥ आबाल्याकिं कार्य निरहंकारेण साधुपदसेवा ।
भाग्योदयस्तु को वा गुरुवचनादद्वितीयपदलाभः ॥ १० ॥ मुक्तैः
किं कर्तव्यं प्रारब्धाधीनसदसताभोगः । पुंसां किं सर्वस्वं सच्चित्सुख-
नामिका गुरोर्मूर्तिः ॥ ११ ॥ का कामधेनुरनघा वेदे देवे तथा
गुरौ श्रद्धा । को वैद्यो रोगहरो ब्रह्मिष्ठः सदयहृदयगुरुराजः ॥१२॥
कः पुत्रः स्वोद्धर्ता ज्ञातस्वात्मैव चिन्मयः पुरुषः । कः सुखशायी
लोके संसृतिमिथ्यात्वपक्कमतितृप्तः ॥ १३ ॥ किं त्याज्यं साधुकृते
चरिते कुत्सितमतिस्तु साधुजनैः । कः शत्रुर्दुःखकरो गुरुवचने
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)