2026-05-10 23:36:37 by ambuda-bot
This page has not been fully proofread.
७७०
बृहत्स्तोत्ररत्नाकरे
[ साधनपंचकम्
न्प्राणापानौ च चेतसा सह यत् । ध्यायन्ति योगिनस्तद्ब्रह्मास्म्या-
म्नायमस्तकावेद्यम् ॥ १८ ॥ इति नृसिंहभारतीस्वामिविरचिता-
त्मावबोधस्तुतिः संपूर्णा ॥
३८९. साधनपंचकम् ।
श्रीगणेशाय नमः ॥ वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां
तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः
परिधूयतां भवसुखे दोषोऽनुसंधीयतामात्मेच्छा व्यवसीयतां निज-
गृहात्तूर्णं विनिर्गम्यताम् ॥ १ ॥ संगः सत्सु विधीयतां भगवती
भक्तिर्हढा धीयतां शांत्यादिः परिचीयतां दृढतरं कर्माशु संत्यज्य -
ताम् । सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुके सेव्यतां ब्रह्मैकाक्षर-
मर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् ॥ २ ॥ वाक्यार्थश्व
विचार्यतां श्रुतिशिरःपक्षः समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिम-
तस्तर्कोऽनुसंधीयताम् । ब्रह्मैवास्मि विभाव्यतामहरहर्गर्वः परित्य
ज्यतां देहेऽहंमतिरुज्ज्यतां बुधजनैवदः परित्यज्यताम् ॥ ३ ॥
क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यतां स्वाद्वन्नं न तु
याच्यतां विधिवशात्प्राप्तेन संतुष्यताम् । शीतोष्णादि विषह्यतां
न तु वृथा वाक्यं समुच्चार्यतामौदासीन्यमभीप्स्यतां जनकृपानैष्टुर्य-
मुत्सृज्यताम् ॥ ४ ॥ एकांते सुखमास्यतां परतरे चेतः समाधी-
यतां पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्वाधितं दृश्यताम् । प्राक्कर्म
प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यतां प्रारब्धं त्विह भुज्य-
तामथ परब्रह्मात्मना स्थीयताम् ॥ ५ ॥ यः श्लोकपंचकमिदं पठते
मनुष्यः संचिंतयत्यनुदिनं स्थिरतामुपेत्य । तस्याशु संसृतिदवानल-
तीव्रघोरतापः प्रशान्तिमुपयाति चितिप्रसादात् ॥ ६ ॥ इति
श्रीमच्छंकराचार्यविरचितं साधनपंचकं संपूर्णम् ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT),