Proofing

This page has not been fully proofread.

आत्मावबोधस्तुतिः ] वेदांतस्तोत्राणि
 
७६९
 
यददेहमखिलदेहेष्वनवस्थेषु व्यवस्थितं विभु च । महदामभूत-
मभयं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ४ ॥ हृदयस्थितानशे-
षांस्त्यक्त्वा कामान्समभुतेऽत्रैव । यत्परहंसस्तदहं ब्रह्मास्म्याम्नायम-
स्तकावेद्यम् ॥ ५ ॥ यदबोधाज्जगदखिलं विभाति पुरुषस्य सत्यतया ।
यद्बोधाच्च मृषा तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ६ ॥ प्रविलाप्य
दृश्यमानं मिथ्येत्याचार्यवाक्यतः शास्त्रात् । यत्प्राप्नोति नरस्तद्ब्रह्मा-
स्म्याम्नायमस्तकावेद्यम् ॥ ७ ॥ यस्याज्ञानादखिलानर्थादिमकारणं
शरीरादौ । आत्मत्वधीर भूत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ८ ॥
यत्साक्षात्कृतये हि श्रवणं मननं तथा ध्यानम् । प्राहुस्त्रय्यन्तास्त-
ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ९ ॥ नद्यास्तीरे पुलिने गिरिमौलौ
काननस्य कोणे यत् । ध्यायन्ति यतिवरास्तद्ब्रह्मास्म्याम्नायमस्तका-
वेद्यम् ॥ १० ॥ यत्र स्थितो विजानातीन्द्रोपेन्द्रादिपदमनीषदिति ।
तत्सुखविश्रान्तिपदं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ११ ॥ श्रुत्या-
चार्यकृपातो योगाभ्यासेन चेश्वरकटाक्षात् । प्रभवति यद्बोधस्तद्ब्रह्मा-
स्म्याम्नायमस्तकावेद्यम् ॥ १२ ॥ यस्मिन्स्थितो न दुःखैरपि
गुरुभिश्चाल्यते जातु । पुरुषः सुखरूपं तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम्
॥ १३ ॥ यत्पृथ्व्यादिषु तिष्ठद्यमयति यद्वेदनैव पृथ्व्यादिः ।
अन्तर्याम्यभिधं तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १४ ॥ उद्दालकः
स्वपुत्रं यत्तत्त्वमसीति बोधयामास । सान्नामन्ते तदहं ब्रह्मास्म्या-
म्नायमस्तकावेद्यम् ॥ १५ ॥ विषयासक्तहृदां यद्दूरे तदसक्तचेतसां
निकटे । उपरतवरलभ्यं तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १६ ॥
सनकादिभ्यः पूर्व वटमूले शंभुराह मौनेन । चिन्मुद्रयाच
यत्तद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १७ ॥ विनियम्य चक्षुरादी-
 
,
 
MPL Sastry. Library Free Digitisation indoscripts.org (ISRT)