2026-05-10 23:36:36 by ambuda-bot
This page has not been fully proofread.
७६८
बृहत्स्तोत्ररत्नाकरे [ आत्मावबोधस्तुतिः
धारयेत् ॥ ५७ ॥ अखंडानंदरूपस्य तस्यानंदलवाश्रिताः । ब्रह्मा-
द्यास्तारतम्येन भवंत्यानंदिनोऽखिलाः ॥ ५८ ॥ तद्युक्तमखिलं वस्तु
व्यवहारस्तदन्वितः । तस्मात्सर्वगतं ब्रह्म क्षीरे सर्पिरिवाखिले ॥५९॥
अनण्वस्थूलमहस्वमदीर्घमजमव्ययम् । अरूपगुणवर्णाख्यं तद्ब्रह्मेत्य-
वधारयेत् ॥ ६० ॥ यद्भासा भास्यतेऽर्कादि भायैर्यत्तु च भास्यते ।
येन सर्वमिदं भाति तद्ब्रह्मेत्यवधारयेत् ॥ ६१ ॥ स्वयमंतर्बहिर्व्याप्य
भासयन्नखिलं जगत् । ब्रह्म प्रकाशते वह्निप्रतप्तायसपिंडवत् ॥६२॥
जगद्विलक्षणं ब्रह्म ब्रह्मणोऽन्यन्न किंचन । ब्रह्मान्यद्भाति चेन्मिथ्या
यथा मरुमरीचिका ॥ ६३ ॥ दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न
तद्भवेत् । तत्त्वज्ञानाच्च तद्ब्रह्म सच्चिदानंदमद्वयम् ॥ ६४ ॥ सर्वगं
सच्चिदात्मानं ज्ञानचक्षुर्निरीक्ष्यते । अज्ञानचक्षुर्नेक्षेत भास्वंतं
भानुमंधवत् ॥ ६५ ॥ श्रवणादिभिरुद्दीप्तो ज्ञानाग्निपरितापितः ।
जीवः सर्वमलान्मुक्तः स्वर्णवद्द्योतते स्वयम् ॥ ६६ ॥ हृदाकाशोदितो
ह्यात्मा बोधभानुस्तमोपहृत् । सर्वव्यापी सर्वधारी भाति सर्व
प्रकाशते ॥ ६७ ॥ दिग्देशकालाद्यनपेक्ष्य सर्वगं शीतादिहन्नित्यसुखं
निरंजनम् । यः स्वात्मतीर्थं भजते विनिष्क्रियः स सर्ववित्सर्व-
गतोऽमृतो भवेत् ॥ ६८ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य-
श्रीमच्छंकराचार्यकृत आत्मबोधः संपूर्णः ॥
३८८. आत्मावबोधस्तुतिः ।
॥
श्रीगणेशाय नमः ॥ जाग्रत्स्वमसुषुप्तिषु शैशवकौमारवार्धकेष्वपि
च । अनुवर्तमानमनिशं ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ १
सद्गुरुसेवननिरतैः स्वाश्रमवर्णोचितानि कर्माणि । कुर्वद्भिर्विविदिषितं
ब्रह्मास्म्यान्नायमस्तकावेद्यम् ॥ २ ॥ स्थूलात्सूक्ष्माद्धेतोर्देहाद्भेदेन यो-
गनिष्णातैः । अनुचिन्त्यमानमसकृद्ब्रह्मास्म्याम्नायमस्तकावेद्यम् ॥ ३ ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)