2026-05-10 23:36:36 by ambuda-bot
This page has not been fully proofread.
आत्मबोधः ]
वेदांतस्तोत्राणि
७६७
ज्ञातृज्ञानज्ञेयभेदः परात्मनि न विद्यते । चिदानंदैकरूपत्वाद्दीप्यते
स्वयमेव हि ॥ ४१ ॥ एवमात्मारणौ ध्यानमथने सततं कृते ।
उदितावगतिज्र्ज्याला सर्वाज्ञानेंधनं दहेत् ॥ ४२ ॥ अरुणेनेव बोधेन
पूर्वं संतमसि हृते । तत आविर्भवेदात्मा स्वयमेवांशुमानिव ॥ ४३ ॥
आत्मा तु सततं प्राप्तोऽप्यप्राप्तवदविद्यया । तन्नाशे प्राप्तवद्भाति
स्वकंठाभरणं यथा ॥ ४४ ॥ स्थाणौ पुरुषवद्धांत्या कृता ब्रह्मणि
जीवता । जीवस्य तात्त्विके रूपे तस्मिन् दृष्टे निवर्तते ॥ ४५ ॥
तत्त्वत्स्वरूपानुभवादुत्पन्नं ज्ञानमंजसा । अहं-ममेति चाज्ञानं बाधते
दिग्भ्रमादिवत् ॥ ४६ ॥ सम्यग्विज्ञानवान् योगी स्वात्मन्येवाखिलं
स्थितम् । एवं च सर्वमात्मानमीक्षते ज्ञानचक्षुषा ॥ ४७ ॥ आत्मै-
वेदं जगत्सर्वमात्मनोऽन्यन्न विद्यते । मृदो यद्वद्घटादीनि स्वात्मानं
सर्वमीक्षते ॥ ४८ ॥ जीवन्मुक्तस्तु तद्विद्वान् पूर्वोपाधिगुणांस्त्यजेत् ।
सच्चिदानंदरूपत्वाद्भवेद्धमरकीटवत् ॥ ४५ ॥ तीर्त्वा मोहार्णवं हत्वा
रागद्वेषादिराक्षसान् । योगी शांतिसमायुक्तो ह्यात्मारामो विराजते
॥५०॥ बाह्यानित्यसुखासक्तिं हित्वाऽऽत्मसुखनिर्वृतः । घटस्थदीप-
वत्स्वच्छः स्वांतरेव प्रकाशते ॥ ५१ ॥ उपाधिस्थोऽपि तद्धमैर्न
लिप्तो व्योमवन्मुनिः । सर्वविन्मूढवत्तिष्ठेदसत्तो वायुवच्चरेत्
॥ ५२ ॥ उपाधिविलयाद्विष्णौ निर्विशेषं विशेन्मुनिः । जले जलं
विययोनि तेजस्तेजसि वा यथा ॥ ५३ ॥ यल्लाभान्नापरो लाभो
यत्सुखान्नापरं सुखम् । यज्ज्ञानान्नापरं ज्ञानं तद्ब्रह्मेत्यवधारयेत्
॥ ५४ ॥ यद्दृष्ट्वा न परं दृश्यं यद्भूत्वा न पुनर्भवः । यज्ज्ञात्वा न
परं ज्ञेयं तद्ब्रह्मेत्यवधारयेत् ॥ ५५ ॥ तिर्यगूर्ध्वमधः पूर्ण सच्चिदा-
नंदमव्ययम् । अनंतं नित्यमेकं यत्तद्ब्रह्मेत्यवधारयेत् ॥ ५६ ॥ क्षत-
द्व्यावृत्तिरूपेण वेदांतैर्लक्ष्यतेऽव्ययम् । अखंडानंदमेकं यत्तद्ब्रह्मेत्यव-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)