Proofing

This page has not been fully proofread.

७६६
 
बृहत्स्तोत्ररत्नाकरे
 
[ आत्मबोधः
 
आत्मनः सच्चिदशश्च बुद्धेर्वृत्तिरिति द्वयम् । संयोज्य चावि-
वेकेन जानामीति प्रवर्तते ॥ २५ ॥ आत्मनो विक्रिया नास्ति
बुद्धेर्बोधो न जात्विति । जीवः सर्वमलं ज्ञात्वा कर्ता द्रष्टेति मुह्यति
॥ २६ ॥ रज्जुसर्पवदात्मानं जीवं ज्ञात्वा भयं वहेत् । नाहं जीवः
परात्मेति ज्ञातं चेन्निर्भयो भवेत् ॥ २७ ॥ आत्मावभासयत्येको
बुद्ध्यादीनींद्रियाणि च । दीपो घटादिवत्स्वात्मा जडैस्तैर्नावभास्यते
॥ २८ ॥ स्वबोधेनान्यबोधेच्छा बोधरूपतयात्मनः । न दीपस्या-
न्यदीपेच्छा यथा स्वात्मप्रकाशने ॥ २९ ॥ निषिध्य निखिलो-
पाधीन्नेतिनेतीति वाक्यतः । विद्यादैक्यं महावाक्यैर्जीवात्मपरमा-
त्मनोः ॥ ३० ॥ आविद्यकं शरीरादि दृश्यं बुद्बुदवत्क्षरम् । एतद्वि-
लक्षणं विद्यादहं ब्रह्मेति निर्मलम् ॥ ३१ ॥ देहान्यत्वान्न मे
जन्मजराकार्यलयादयः । शब्दादिविषयैः संगो निरिंद्रियतया न
च ॥ ३२ ॥ अमनस्त्वान्न मे दुःखरागद्वेषभयादयः । अप्राणो
ह्यमनाः शुभ्र इत्यादिश्रुतिशासनात् ॥ ३३ ॥ निर्गुणो निष्क्रियो
नित्यो निर्विकल्पो निरंजनः । निर्विकारो निराकारो नित्यमुक्तोऽस्मि
निर्मलः ॥ ३४ ॥ अहमाकाशवत्सर्व बहिरंतर्गतोऽच्युतः । सदा
सर्वसमः शुद्धो निःसंगो निर्मलोऽचलः ॥ ३५ ॥ नित्यशुद्ध-
विमुक्तैकमखंडानंदमद्वयम् । सत्यं ज्ञानमनंतं यत्परं ब्रह्माहमेव तत्
॥ ३६ ॥ एवं निरंतराभ्यस्ता ब्रह्मैवास्मीति वासनां । हरत्यविद्या-
विक्षेपान् रोगानिव रसायनम् ॥ ३७ ॥ विविक्तदेश आसीनो
विरागो विजितेंद्रियः । भावयेदेकमात्मानं तमनंतमनन्यधीः
॥ ३८ ॥ आत्मन्येवाखिलं दृश्यं प्रविलाप्य धिया सुधीः । भाव-
येदेकमात्मानं निर्मलाकाशवत्सदा ॥ ३९ ॥ नामरूपादिकं सर्व
विहाय परमार्थवित् । परिपूर्णचिदानंदस्वरूपेणावतिष्ठते ॥ ४० ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)