Proofing

This page has not been fully proofread.

आत्मबोधः ]
 
वेदांतस्तोत्राणि
 
७६५
 
दिवत् ॥ ८ ॥ उपादानेऽखिलाधारे जगन्ति परमेश्वरे । सर्गस्थि-
तिलयान्यान्ति बुडुदानीव वारिणि ॥ ९ ॥ यथाकाशो हृषीकेशो
नानोपाधिगतो विभुः । तद्भेदाद्भिन्नवद्भाति तन्नाशे सति
केवलः ॥ १० ॥ नानोपाधिवशादेव जातिवर्णाश्रमादयः ।
आत्मन्यारोपितास्तोये रसवर्णादिभेदवत् ॥ ११ ॥ पंचीकृत-
महाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगाय-
तनमुच्यते ॥ १२ ॥ पंचप्राणमनोबुद्धिर्दशेंद्रियसमन्वितम् ।
अपंचीकृतभूतोत्थं सूक्ष्मांगं भोगसाधनम् ॥ १३ ॥ अनाद्य-
विद्याऽनिर्वाच्याकारणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मा-
नमवधारयेत् ॥ १४ ॥ पंचकोशादियोगेन तत्तन्मय इव
स्थितः । शुद्धात्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १५ ॥
चपुस्तुषादिभिः कोशैर्युक्तं युक्त्यावघाततः । आत्मानमंतरं शुद्धं
विविच्यात्तंडुलं यथा ॥ १६ ॥ सदा सर्वगतोऽप्यात्मा न सर्वत्राव-
भासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंबवत् ॥ १७ ॥ देहेंद्रिय-
मनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तद्वृत्तिसाक्षिणं विद्यादात्मानं राज-
चत्सदा ॥ १८ ॥ व्यापृतेष्विद्रियेष्वात्मा व्यापारीवाविवेकिनाम् ।
दृश्यतेऽषु धावत्सु धावन्निव यथा शशी ॥ १९ ॥ आत्मचैतन्य-
माश्रित्य देहेंद्रियमनोधियः । स्वकीयार्थेषु वर्तते सूर्यालोकं यथा
जनाः ॥ २० ॥ देहेन्द्रियगुणान्कर्माण्यमले सच्चिदात्मनि । अध्य-
स्यंत्यविवेकेन गगने नीलिमादिवत् ॥ २१ ॥ अज्ञानान्मनसोपाधेः
कर्तृत्वादीनि चात्मनि । कल्प्यतेऽबुगते चंद्रे चलनादिर्यथांभसः
॥ २२ ॥ रागेच्छासुखदुःखादि बुद्धौ सत्यां प्रवर्तते । सुषुप्तौ नास्ति
तन्नाशे तस्माद्बुद्धेस्तु नात्मनः ॥ २३ ॥ प्रकाशोऽर्कस्य तोयस्य
शैत्यमग्नेोष्णता । स्वभावः सच्चिदानंदनित्यनिर्मलतात्मनः ॥ २४ ॥
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)