2026-05-10 23:36:35 by ambuda-bot
This page has not been fully proofread.
७६४
बृहत्स्तोत्ररत्नाकरे
[ आत्मबोधः
नित्योपल० ॥ ९ ॥ विवस्वव्यभातं यथारूपमक्षं प्रगृह्णाति
नाभातमेवं विवस्वान् । यदाभात आभासयत्यक्षमेकः स नित्यो-
पल० ॥ १० ॥ यथा सूर्य एकोऽप्स्वनेकश्चलासु स्थिरास्वप्यनन्य-
द्विभाव्यस्वरूपः । चलासु प्रभिन्नः सुधीष्वेक एव स नित्योपल०
॥ ११ ॥ घनच्छन्नदृष्टिर्धनच्छन्नमर्कं यथा निष्प्रभं मन्यते चाति-
मूढः । तथा बद्धवद्भाति यो मूढदृष्टेः स नित्योपल० ॥ १२ ॥
समस्तेषु वस्तुष्वनुस्यूतमेकं समस्तानि वस्तूनि यन्न स्पृशति ।
वियद्वत्सदा शुद्धमच्छस्वरूपः स नित्यो० ॥ १३ ॥ उपाधौ यथा
भेदता सन्मणीनां तथा भेदता बुद्धिभेदेषु तेऽपि । यथा चंद्रिकाणां
जले चंचलत्वं तथा चंचलत्वं तवापीह विष्णो ॥ १४ ॥ इति
श्रीमच्छंकराचार्यकृतं हस्तामलकस्तोत्रं संपूर्णम् ॥
३८७. आत्मबोधः ।
श्रीगणेशाय नमः ॥ तपोभिः क्षीणपापानां शांतानां वीतराग-
णाम् । मुमुक्षूणामपेक्ष्योऽयमात्मबोधो विधीयते ॥ १ ॥ बोधोऽन्य-
साधनेभ्यो हि साक्षान्मोक्षैकसाधनम् । पाकस्य वह्निवज्ज्ञानं विना
मोक्षो न सिद्ध्यति ॥ २ ॥ अविरोधितया कर्म नाविद्यां विनिवर्त-
येत् । विद्याऽविद्यां निहंत्येव तेजस्तिमिरसंघवत् ॥ ३ ॥ परिच्छिन्न
इवाज्ञानात्तन्नाशे सति केवलः । स्वयं प्रकाशते ह्यात्मा मेघापायें-
ऽशुमानिव ॥ ४ ॥ अज्ञानकलुषं जीवं ज्ञानाभ्यासाद्धि निर्मलम् ।
कृत्वा ज्ञानं स्वयं नश्येजलं कतकरेणुवत् ॥ ५ ॥ संसारः स्वप्न-
तुल्यो हि रागद्वेषादिसंकुलः । स्वकाले सत्यवद्भाति प्रबोधे सत्य-
वद्भवेत् ॥ ६ ॥ तावत्सत्यं जगद्भाति शुक्तिकारजतं यथा । यावन्न
ज्ञायते ब्रह्म सर्वाधिष्ठानमद्वयम् ॥ ७ ॥ सच्चिदात्मन्यनुस्यूते
नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके कटका-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)