Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
हस्तामलकस्तोत्रम् ] वेदांतस्तोत्राणि
 
७६३
 
</ignore>
<p>
फेनस्य तद्धर्मा द्रवाद्यास्तु तरङ्गके । तस्यापि विलये नीरे तिष्ठन्त्येते

यथा पुरा ॥ ४५ ॥<break/> प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके ।

तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६ ॥<break/> इति श्रीम-

द्
गोविन्दभगवत्पूज्यपादशिष्यश्रीशंकराचार्यविरचितं वाक्यसुधास्तोत्रं
 

संपूर्णम् ॥
 
</p>
<title text="386_START">
३८६. हस्तामलकस्तोत्रम् ।
 
</title>
<verse merge-next="true">
श्रीगणेशाय नमः ॥ कस्त्वं शिशो कस्य कुतोऽसि गंता किं नाम

ते त्वं कुत आगतोऽसि । एतन्मयोक्तं वद चार्क त्वं मत्प्रीतये

प्रीतिविवर्धनोऽसि ॥ १ ॥<break/> हस्तामलक उवाच ॥ नाहं मनुष्यो न

च देवयक्षौ न ब्राह्मणक्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही

वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥ २ ॥<break/> निमित्तं मनश्चक्षुरा-

दिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं

यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यमभ्<break/> यमग्न्युष्णव-

न्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तं आश्रित्य

निष्कंपमेकं स नित्योपलब्धिस्वरूपोऽह ॥ ४ ॥<break/> मुखाभासको

दर्पणो दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्तु वस्तु । चिदाभासको

धीषु जीवोsपि तद्वत् स नित्योपलब्धिस्वरूपो ॥ ५ ॥<break/> यथा

दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा

धीवियोगे निराभासको यः स नित्योप ॥ ६ ॥<break/> मनश्चक्षुरादेर्वि-

युक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्य-

स्वरूपः स नित्योप ॥ ७ ॥<break/> य एको विभाति स्वतः शुद्धचेताः

प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः

स नित्योपल ॥ ८ ॥<break/> यथाऽनेकचक्षुःप्रकाशो रविर्न क्रमेण प्रका-

शीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकः प्रबोधः स
 
MPL S
</verse>
</p
astry Library Free Digitisation indoscripts.org (ISRT)
 
e>