Proofing

This page has not been fully proofread.

हस्तामलकस्तोत्रम् ] वेदांतस्तोत्राणि
 
७६३
 
फेनस्य तद्धर्मा द्रवाद्यास्तु तरङ्गके । तस्यापि विलये नीरे तिष्ठन्त्येते
यथा पुरा ॥ ४५ ॥ प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके ।
तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६ ॥ इति श्रीम-
गोविन्दभगवत्पूज्यपादशिष्यश्रीशंकराचार्यविरचितं वाक्यसुधास्तोत्रं
 
संपूर्णम् ॥
 
३८६. हस्तामलकस्तोत्रम् ।
 
श्रीगणेशाय नमः ॥ कस्त्वं शिशो कस्य कुतोऽसि गंता किं नाम
ते त्वं कुत आगतोऽसि । एतन्मयोक्तं वद चार्मक त्वं मप्रीतये
प्रीतिविवर्धनोऽसि ॥ १ ॥ हस्तामलक उवाच ॥ नाहं मनुष्यो न
च देवयक्षौ न ब्राह्मणक्षत्रियवैश्यशूद्रः । न ब्रह्मचारी न गृही
वनस्थो भिक्षुर्न चाहं निजबोधरूपः ॥ २ ॥ निमित्तं मनश्चक्षुरा-
दिप्रवृत्तौ निरस्ताखिलोपाधिराकाशकल्पः । रविर्लोकचेष्टानिमित्तं
यथा यः स नित्योपलब्धिस्वरूपोऽहमात्मा ॥ ३ ॥ यमभ्युष्णव-
न्नित्यबोधस्वरूपं मनश्चक्षुरादीन्यबोधात्मकानि । प्रवर्तत आश्रित्य
निष्कंपमेकं स नित्योपलब्धिस्वरूपोऽह० ॥ ४ ॥ मुखाभासको
दर्पणो दृश्यमानो मुखत्वात्पृथक्त्वेन नैवास्तु वस्तु । चिदाभासको
धीषु जीवोsपि तद्वत् स नित्योपलब्धिस्वरूपो० ॥ ५ ॥ यथा
दर्पणाभाव आभासहानौ मुखं विद्यते कल्पनाहीनमेकम् । तथा
धीवियोगे निराभासको यः स नित्योप० ॥ ६ ॥ मनश्चक्षुरादेर्वि-
युक्तः स्वयं यो मनश्चक्षुरादेर्मनश्चक्षुरादिः । मनश्चक्षुरादेरगम्य-
स्वरूपः स नित्योप० ॥ ७ ॥ य एको विभाति स्वतः शुद्धचेताः
प्रकाशस्वरूपोऽपि नानेव धीषु । शरावोदकस्थो यथा भानुरेकः
स नित्योपल० ॥ ८ ॥ यथाऽनेकचक्षुःप्रकाशो रविर्न क्रमेण प्रका-
शीकरोति प्रकाश्यम् । अनेका धियो यस्तथैकः प्रबोधः स
 
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)