2026-05-10 23:36:35 by ambuda-bot
This page has not been fully proofread.
७६२
I
बृहत्स्तोत्ररत्नाकरे
[ वाक्यसुधास्तोत्रम्
भवेत् ॥ २८ ॥ स्तब्धीभावो रसास्वादात्तृतीयः पूर्ववन्मतः । एतैः
समाधिभिः षड्भिर्नयेत्कालं निरन्तरम् ॥ २९ ॥ देहाभिमाने
गलिते विज्ञाते परमात्मनि । यत्र यत्र मनो याति तत्र तत्र समा-
धयः ॥ ३० ॥ भिद्यते हृदयग्रन्थिच्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते
चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ३१ ॥ अवच्छिन्नश्चिदाभास-
स्तृतीयः स्वप्नकल्पतः । विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिकः
॥ ३२॥ अवच्छेदः कल्पितः स्यादवच्छेद्यं तु वास्तवम् । तस्मिञ्जीव-
त्वमारोपाद्ब्रह्मत्वं तु स्वभावतः ॥ ३३ ॥ अवच्छिन्नस्य रूपस्य
पूर्णेन ब्रह्मणैकता । तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४॥
ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी । आवृत्या खण्डतां तस्मिन्
जगज्जीवौ प्रकल्पितौ ॥ ३५ ॥ जीवो धीस्थचिदाभासो भवेद्भोक्ता
हि कर्मकृत् । भोग्यरूपमिदं सर्वं जगत्स्याद्भूतभौतिकम् ॥ ३६ ॥
अनादिकालमारभ्य मोक्षात्पूर्वमिदं द्वयम् । व्यवहारे स्थितं तस्मा-
दुभयं व्यावहारिकम् ॥ ३७ ॥ चिदाभासस्थिता निद्रा विक्षेपावृति--
रूपिणी । आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत्
प्रतीतकाल एवैते स्थितत्वाव्यातिभासिके । न हि स्वप्नप्रबुद्धस्य पुनः
स्वप्नस्थितिस्तयोः ॥ ३९ ॥ प्रातिभासिकजीवो यस्तज्जगत्प्रातिभा-
सिकम् । वास्तवं मन्यतेऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४० ॥
व्यावहारिकजीवो यस्तज्जगद्व्यावहारिकम् । सत्यं प्रत्येति मिथ्येति
मन्यते पारमार्थिकः ॥ ४१ ॥ पारमार्थिकजीवस्तु ब्रह्मैक्यं पार-
मार्थिकम् । प्रत्येति वीक्षते नान्यद्वीक्षते त्वनृतात्मनः ॥ ४२ ॥
माधुर्यद्रवशैत्यादिजलधर्मास्तरङ्गके । अनुगम्याऽथ तन्निष्ठे फेनेऽप्य-
नुगता यथा ॥ ४३ ॥ साक्षिस्थाः सच्चिदानन्दाः सम्बन्धाद्व्यावहा-
रिके । तद्द्वारेणानुगच्छन्ति तथैव प्रातिभासिके ॥ ४४ ॥ लये
३८ ॥
MPL Sastry Library Free Digitisation indoscripts.org (ISRT).