Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
वाक्यसुधास्तोत्रम् ]
 
वेदांतस्तोत्राणि
 
७६१
 
</ignore>
<verse merge-next="true">
मेकं जडात्मकम् । अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२ ॥
<break/>
शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादि-

ब्रह्माण्डान्तं सृजेद्बहिः ॥ १३ ॥<break/> सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्द-

वस्तुनि । अब्धौ फेनादिवत्सर्वं नामरूपप्रसारणा ॥ १४ ॥<break/> अन्तर्दृ-

ग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसा-

रस्य कारणम् ॥ १५ ॥<break/> साक्षिणः पुरतो भातं लिङ्गं देहेन संयुतम् ।

चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६ ॥<break/> अस्य जीव-

त्वमारोपात्साक्षिण्यप्यवभासते । आवृतौ तु विनष्टायां भेदे भाते

प्रयाति तत् ॥ १७ ॥<break/> तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति । या

शक्तिस्तद्वशाद्रह्म विकृतत्वेन भासते ॥ १८ ॥<break/> अत्राप्यावृतिनाशेन

विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारः स्यात्सर्गेन ब्रह्मणि क्वचित्

॥ १९ ॥<break/> अस्ति भाति प्रियं रूपं नाम चेत्येशपंचकम् । आद्यत्रयं

ब्रह्मरूपं जगद्रूपं ततोऽद्वयम् ॥ २० ॥<break/> खं वाय्वग्निजलोर्वीषु देव-

तिर्यङ्रादिषु । अभिन्ना सच्चिदानन्दा भिद्येते रूपनामनी ॥ २१ ॥
<break/>
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधिं सर्वदा कुर्याद्धृदये

चाथवा बहिः ॥ २२ ॥<break/> सविकल्पो निर्विकल्पः समाधिर्द्विविधो

हृदि । दृश्यशब्दानुविद्धो यः सविकल्पः पुनर्द्विधा ॥ २३ ॥<break/> कामा-

द्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेदृश्यानुविद्धोऽयं स-

माधिः सविकल्पकः२४॥<break/> असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ।

अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५ ॥ स्वानुभूति-

रसावेशाद्दृश्यशब्दानुपेक्षते । निर्विकल्पसमाधिः स्यान्निर्वातस्थित-

दीपवत् ॥ २६ ॥<break/> हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ।

समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७ ॥<break/> अखण्डैकरसं

वस्तु सच्चिदानन्दलक्षणम् । इत्यवच्छिन्न चिन्तेयं समाधिर्मध्यमो
MPL Sa
</verstry Library Free Die>
</pa
gitisation indoscripts.org (ISRT).
 
e>