Proofing

This page has not been fully proofread.

वाक्यसुधास्तोत्रम् ]
 
वेदांतस्तोत्राणि
 
७६१
 
मेकं जडात्मकम् । अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२ ॥
शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् । विक्षेपशक्तिर्लिङ्गादि-
ब्रह्माण्डान्तं सृजेद्बहिः ॥ १३ ॥ सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्द-
वस्तुनि । अब्धौ फेनादिवत्सर्वं नामरूपप्रसारणा ॥ १४ ॥ अन्तर्ड-
ग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः । आवृणोत्यपरा शक्तिः सा संसा-
रस्य कारणम् ॥ १५ ॥ साक्षिणः पुरतो भातं लिङ्गं देहेन संयुतम् ।
चितिच्छाया समावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६ ॥ अस्य जीव-
त्वमारोपात्साक्षिण्यप्यवभासते । आवृतौ तु विनष्टायां भेदे भाते
प्रयाति तत् ॥ १७ ॥ तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति । या
शक्तिस्तद्वशाद्रह्म विकृतत्वेन भासते ॥ १८ ॥ अत्राप्यावृतिनाशेन
विभाति ब्रह्मसर्गयोः । भेदस्तयोर्विकारः स्यात्सर्गेन ब्रह्मणि क्वचित्
॥ १९ ॥ अस्ति भाति प्रियं रूपं नाम चेत्येशपंचकम् । आद्यत्रयं
ब्रह्मरूपं जगद्रूपं ततोऽद्वयम् ॥ २० ॥ खं वाय्वग्निजलोर्वीषु देव-
तिर्यङ्गरादिषु । अभिन्ना सच्चिदानन्दा भिद्येते रूपनामनी ॥ २१ ॥
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः । समाधिं सर्वदा कुर्याद्धृदये
चाथवा बहिः ॥ २२ ॥ सविकल्पो निर्विकल्पः समाधिर्द्विविधो
हृदि । दृश्यशब्दानुविद्धो यः सविकल्पः पुनर्द्विधा ॥ २३ ॥ कामा-
द्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेदृश्यानुविद्धोऽयं स-
माधिः सविकल्पकः॥२४॥ असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ।
अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५ ॥ स्वानुभूति-
रसावेशाद्दृश्यशब्दानुपेक्षते । निर्विकल्पसमाधिः स्यान्निर्वातस्थित-
दीपवत् ॥ २६ ॥ हृदीव बाह्यदेशेऽपि यस्मिन्कस्मिंश्च वस्तुनि ।
समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७ ॥ अखण्डैकरसं
वस्तु सच्चिदानन्दलक्षणम् । इत्यवच्छिन्न चिन्तेयं समाधिर्मध्यमो
MPL Sastry Library Free Digitisation indoscripts.org (ISRT).