Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
७६०
 
बृहत्स्तोत्ररत्नाकरे
 
[ वाक्यसुधास्तोत्रम्
 
</ignore>
<p>
मुंचति पापाचरणम् । भज गोविंदं भज ॥ १५ ॥ रथ्याचर्पट-

विरचितकंथः पुण्यापुण्यविवर्जितपंथः । नाहं न त्वं नायं लोकस्तदपि

किमर्थं क्रियते शोकः । भज गोविंदं भज ॥ १६ ॥ कुरुते

गंगासागरगमनं व्रतपरिपालनमथवा दानम्'। ज्ञानविहीने सर्वमनेन

मुक्तिर्न भवति जन्मशतेन । भज गोविंदं भज ॥ १७ ॥ इ
ति
श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिकास्तोत्रं संपूर्णम् ॥
</p>
<title text="385_START">
३८५. वाक्यसुधास्तोत्रम् ।
 
</title>
<verse merge-next="true">
श्रीगणेशाय नमः ॥ रूपं दृश्यं लोचनं दृक् दृग्दृश्यं दृक्तु मान-

सम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १ ॥<break/> नीलपीत-

स्थूलसूक्ष्मह्रस्वदीर्घादिभेदतः । नानाविधानि रूपाणि पश्येल्लोचन-

मेकधा ॥ २ ॥<break/> आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा । सङ्कल्प-

येन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३ ॥<break/> कामसंकल्प संदेहाः

श्रद्धाश्रद्धे धृतीतरे । हीह्रीर्धीर्भीरित्येवमादीन्भासयत्येकधा चितिः

॥ ४ ॥<break/> नोदेति नास्तमायाति न वृद्धिं याति न क्षयम् । स्वयं

विभात्यथान्यानि भासयेत्साधनं विना ॥ ५ ॥<break/> चिच्छायावेशतो

बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाऽहं कृतिरन्या स्यादन्तःकरण-

रूपिणी ॥ ६ ॥<break/> छायाऽहंकारयोरैक्यं तप्तायः पिण्डवन्मतम् । तद-

हंकारतादात्म्याद्देहश्चेतनतामियात् ॥ ७ ॥<break/> अहंकारस्य तादात्म्यं

चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रांतिजन्यं च त्रिविधं

क्रमात् ॥ ८ ॥<break/> संबन्धिनो सतोर्नास्ति निवृत्तिः सहजस्य तु । कर्म-

क्षयात्प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९ ॥<break/> अहंकारलये सुप्तौ भवे-

द्
देहोऽप्यचेतनः । अहंकृतिविकासोऽर्धः स्वमःप्नः सर्वस्तु जागरः

॥ १० ॥<break/> अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनां कल्प-

येत्स्वप्ने बोधे तु विषयान्बहिः ॥ ११ ॥<break/> मनोऽहंकृत्युपादानं लिङ्ग-
MPL Sa
</verstry Library Free Die>
</pa
gitisation indoscripts.org (ISRT)
 
e>