Proofing

This page has not been fully proofread.

७६०
 
बृहत्स्तोत्ररत्नाकरे
 
[ वाक्यसुधास्तोत्रम्
 
मुंचति पापाचरणम् । भज गोविंदं भज० ॥ १५ ॥ रथ्याचर्पट-
विरचितकंथः पुण्यापुण्यविवर्जितपंथः । नाहं न त्वं नायं लोकस्तदपि
किमर्थं क्रियते शोकः । भज गोविंदं भज० ॥ १६ ॥ कुरुते
गंगासागरगमनं व्रतपरिपालनमथवा दानम्'। ज्ञानविहीने सर्वमनेन
मुक्तिर्न भवति जन्मशतेन । भज गोविंदं भज० ॥ १७ ॥ इ
श्रीमच्छंकराचार्यविरचितं चर्पटपंजरिकास्तोत्रं संपूर्णम् ॥
३८५. वाक्यसुधास्तोत्रम् ।
 
श्रीगणेशाय नमः ॥ रूपं दृश्यं लोचनं दृक् दृग्दृश्यं दृक्तु मान-
सम् । दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १ ॥ नीलपीत-
स्थूलसूक्ष्महस्वदीर्घादिभेदतः । नानाविधानि रूपाणि पश्येल्लोचन-
मेकधा ॥ २ ॥ आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा । सङ्कल्प-
येन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३ ॥ कामसंकल्प संदेहाः
श्रद्धाश्रद्धे धृतीतरे । हीर्धीर्भीरित्येवमादीन्भासयत्येकधा चितिः
॥ ४ ॥ नोदेति नास्तमायाति न वृद्धिं याति न क्षयम् । स्वयं
विभात्यथान्यानि भासयेत्साधनं विना ॥ ५ ॥ चिच्छायावेशतो
बुद्धौ भानं धीस्तु द्विधा स्थिता । एकाऽहं कृतिरन्या स्यादन्तःकरण-
रूपिणी ॥ ६ ॥ छायाऽहंकारयोरैक्यं तप्तायः पिण्डवन्मतम् । तद-
हंकारतादात्म्याद्देहश्चेतनतामियात् ॥ ७ ॥ अहंकारस्य तादात्म्यं
चिच्छायादेहसाक्षिभिः । सहजं कर्मजं भ्रांतिजन्यं च त्रिविधं
क्रमात् ॥ ८ ॥ संबन्धिनो सतोर्नास्ति निवृत्तिः सहजस्य तु । कर्म-
क्षयात्प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९ ॥ अहंकारलये सुप्तौ भवे-
देहोऽप्यचेतनः । अहंकृतिविकासोऽर्धः स्वमः सर्वस्तु जागरः
॥ १० ॥ अन्तःकरणवृत्तिश्च चितिच्छायैक्यमागता । वासनां कल्प-
येत्स्वप्ने बोधे तु विषयान्बहिः ॥ ११ ॥ मनोऽहंकृत्युपादानं लिङ्ग-
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)