2026-05-10 23:36:35 by ambuda-bot
This page has not been fully proofread.
७५८
बृहत्स्तोत्ररत्नाकरे [ चर्पटपंजरिका स्तोत्रम्
त्मानं सर्वत्रोत्सृज भेदाज्ञानम् ॥ ९ ॥ प्राणायामं प्रत्याहारं नित्या-
नित्यविवेकविचारम् । जाप्यसमेत समाधिविधानं कुर्ववधानं मह-
दवधानम् ॥ १० ॥ अष्टकुलाचलसप्तसमुद्राः ब्रह्मपुरंदरदिनकर-
रुद्राः। न त्वं नाहं नायं लोकस्तदपि किमर्थं क्रियते शोकः ॥ ११ ॥
सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः । यद्यपि लोके
मरणं शरणं तदपि न मुञ्चति पापाचरणम् ॥ १२ ॥ यावज्जीवो
निवसति देहे कुशलं तावत्पृच्छति देहे । गतवति वायौ देहापाये
भार्यां बिभ्यति तस्मिन्काये ॥ १३ ॥ नलिनीदलगतजलवत्तरलं
तद्वज्जीवनमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोक-
हतं च समस्तम् ॥ १४ ॥ का तेऽष्टादशदेशे चिंता वातुल तव किं
नास्ति नियंता । यस्त्वां हस्ते सुदृढनिबद्धं बोधयति प्रभवादिविरु-
द्धम् ॥ १५ ॥ गुरुचरणांबुजनिर्भरभक्तः संसारादचिराद्भवमुक्तः ।
सेंद्रियमानसनियमादेवं द्रक्ष्यसि निजहृदयस्थं देवम् ॥ १६ ॥
इति श्रीमच्छंकराचार्यविरचितं मोहमुद्गरस्तोत्रं संपूर्णम् ॥
३८४. चर्पटपंजरिकास्तोत्रम् ।
श्रीगणेशाय नमः ॥ दिनमपि रजनी सायं प्रातः शिशिरवसंतौ
पुनरायातः । कालः क्रीडति गच्छत्यायुस्तदपि न मुंचत्याशावायुः
॥ १ ॥ भज गोविंदं भज गोविंदं भज गोविंदं मूढमते । प्राप्ते
सन्निहिते मरणे नहि नहि रक्षति डुकृञ् करणे ( ध्रुवपदम् ) । अग्रे
वह्निः पृष्ठे भानू रात्रौ चुबुकसमर्पितजानुः । करतलभिक्षा तरुतल-
वासस्तदपि न मुंचत्याशापाशः । भज गोविंदं० ॥ २ ॥ यावद्वित्तो-
पार्जनसक्तस्तावन्निजपरिवारो रक्तः । पश्चाद्धावति जर्जर देहे वार्ता
पृच्छति कोऽपि न गेहे । भज गोविंदं भज० ॥ ३ ॥ जटिलो मुंडी
लुंचितकेशः काषायांबरबहुकृतवेषः । पश्यन्नपि च न पश्यति मूढ
MPL Sastry Library Free Digitisation indoscripts.org (ISRT)