This page has not been fully proofread.

भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः,
१३३ - 'अरण्य - याने सु- करे पिता मा
प्रायुङ्क, राज्ये वत दुप्- करे त्वाम् ॥
मा गाः शुचं वीर !, भरं वहा॑ ऽमुम्,
 
2
 
,
 
आभाषि रामेण वचः कनीयान् ॥ ५१ ॥
अरण्ययान इत्यादि - अरण्याय यानं अरण्ययानं तस्मिन् सुकरे सुखसाध्ये
पिता मां प्रायुत नियुक्तवान् । युजे रौधादिकस्य लङि रूपम् । कर्त्रभिप्राये '२७३'५।
प्रोपाभ्यां यजेः-।१।३।६४ । इत्यात्मनेपदम् । राज्ये दुष्करे दुःग्वसाध्ये त्वां
प्रायुत । एवं च सति हे वीर, शुचं शोकं मा गाः । मा कार्पीरित्यर्थ: । '२४५८।
इणोगलुङ ।२।४।४५॥ २२२३ । गाति-स्था - ।२।४।७७ ।' इति सिचो
लुक् । यत इति खेढे । किन्तु भरममुं पितुर्नियोगम् । १९६४ । भृ-ज् भरणे ।'
इत्यस्मात् '३२३२। ऋदोरप् ।३।३।५७ । वह संपादय । विधौ लोट् । एवं वचः
रामेण कनीयान् अनुजो भ्राता भरतः आभाषि भाषितः । कर्मणि लुङ् । ब्रुवी-
त्यर्थग्रहणात् द्विकर्मकता । अल्पशव्दादीयसुने २०१९ । युवाल्पयोः ॥३।६४ । '
इत्यादिना कनादेशः ॥
 
૬૮
 
१३४ - कृती श्रुती वृद्ध मतेषु धीमांस्
त्वं पैतृकं चेद् वचनं न कुर्याः ॥
विच्छिद्यमाने ऽपि कुले परस्य
 
पुंसः कथं स्यादिह पुत्र काम्या ॥ ५२ ॥
 
-
 
कृतीत्यादि - वृद्धानां पण्डितानां मतेपु श्रुतानि कृतानि चानुष्टितानि येने-
ति । श्राद्धमनेनेत्यधिकृत्य । '१८८८ । इष्टादि ।५।२।८८।' इतीनिः । तस्येन्विष-
यस्येति कर्मणि सप्तमी । स्वमते भावक्ता
वक्तान्तादस्त्यर्थे इन् । स त्वमेवंविधः धीमान्
नेतृकं पितुरागतम् । '१४५८। पितुर्यच्च ।४।३।७९॥ इति चकारादृतष्ठजि '१२२१॥
{सुसुक्तान्तात्कः।७।३।५१॥' चेद्यदि वचनं न कुर्याः । मध्यमपुरुपैकवचने लिङि
रूपम् । तदा विच्छिद्यमाने कुले वंशे परस्यापि अन्यस्यापि पुंसः । अपिशब्दो
भेन्चक्रमः । कथं स्यादिह लोके पुत्रकाम्या आत्मनः पुत्रेच्छा । नैवेत्यर्थः । पुत्रश-
द्वात् '२६६३। काम्यञ्च ।३।१।९।' इति काम्यच् । तदन्तादप्रत्ययः । टाप् ॥
 
१३५ - अस्माकमुक्तं बहु मन्यसे चेद्,
 
यदीशिषे त्वं न मयि स्थिते च ॥
जिष्य - तिष्ठन् यदि तात-वाक्ये,
 
जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्.' ॥ ५३॥
अस्मत्सम्बन्धि वचनं चेद्र यदि बहु
न्यसे आद्वियसे । पितृतुल्यो भ्राता अस्यानुमतः कथमेवं न कुर्यामिति यदि
 
अस्माकमित्यादि — अस्माकमुक्तं